________________ तादृशास्तत्र सन्त्यन्येऽप्यसंख्या: पार्थिवादयः / परे पुनरसंख्याता, निर्भरं मद्यपायिनः // 120 // न जिघ्रन्ति न पश्यन्ति, नापि शृण्वन्ति किञ्चन / लिहन्ति जिह्वया किञ्चित्, किन्त्वाराटिमुचो भृशम् // 121 // न शृण्वन्ति न पश्यन्ति, संख्यातीताः परे पुनः / जिघ्रन्ति केवलं किञ्चित्, परे संख्याऽतिगाः पुनः // 122 // नाकर्णयन्ति किन्त्वक्ष्णा, पश्यन्ति पुरतः स्थितम् / तत्रासंख्याः परे मद्याद्, दधते चित्तशून्यताम् // 123 // . अन्ये पुनरसंख्याता, दृष्टा विस्पष्टचेतनाः / . दुर्मद्यमत्तता तेषु, किन्त्वाकालमवस्थिता // 124 // पाट्यन्ते ते च भिद्यन्ते, छिद्यन्ते रिपुभिर्भशम् / मदोद्धताश्च कुर्वन्ति, तीव्रां ते वेदनां मिथः // 125 // भ्राम्यन्ति मदिरोद्भ्रान्तास्तत्रासंख्याः परेऽपि च / अज्ञा अव्यक्तघोषास्ते, गच्छन्ति जननीमपि // 126 // अन्येऽपि तत्र विद्यन्ते, संख्याऽतीता मनुष्यकाः। गाढमत्तास्तथाऽन्ये च, ते पुनर्द्विविधाः स्मृताः // 127 // तत्र ये गाढमत्तास्ते, विलुठन्तो भुवस्तले / वान्तं पित्तं मलं मूत्रं, भक्षयन्ति मुहुर्मुहुः // 128 // इतरे भद्र ! संख्यातास्ते पुनर्मदिरामदात् / गायन्ति परिनृत्यन्ति, युध्यन्ते च हसन्ति च // 129 // भूयो लुठन्ति धावन्ति, वल्गन्ति च परस्परम् / चुम्बन्ति वक्त्रनेत्राणि, बालानां योषितां तथा // 130 // कुर्वन्तेऽनार्यकार्याणि, सहन्ते तीव्रवेदनाः / .. न तु मद्याद् विरज्यन्ते, राजभिर्दण्डिता अपि / // 131 // : 12