________________ // 108 // // 109 // // 110 // // 111 // // 112 // // 113 // / प्रदर्शयन्नयं स्वीयगृहवासस्य दुःस्थताम् / वैराग्योद्दीपनात् स्वान्तमाक्षिपत्यावयोरपि यादृशो गृहवासोऽस्य, निन्द्यो दुःखैककारणम् / छनोऽप्यज्ञानसंमोहादावयोरपि तादृशः त्यागार्होऽयं न तन्मित्र, किं तवाप्यवभासते / वाचमित्यकलङ्कस्य, श्रुत्वाऽहं मौनमास्थितः मुनेरथ तृतीयस्य, सोऽकलको मयाऽन्वितः / गतोऽन्तिकमपृच्छत् तं, कुतोऽभूस्त्वं विरागवान् तेन प्रोक्तं मया भद्र, मद्यापानकमीक्षितम् / तदेव मम संपन्नं, भववैराग्यकारणम् आसं तत्र मदोन्मत्तो, बोधितो ब्राह्मणैस्ततः / अकलङ्को बभाषे तं, याहगापानके स्थितः बोधितो ब्राह्मणैर्यैश्च, तत्सर्वं वक्तुमहसि / मुनिः प्राह ततः स्वीयमापानकविचेष्टितम् .. चित्रासवसुरापूर्ण राजितं शितिनीरजैः / लोकैश्च चारुचषकसरकैर्मदपूर्णितः नानाविधविलासाढ्यं, कृततालमहारवम् / मत्तकान्तजनाकीर्णं, प्रौढस्त्रीकृतविभ्रमम् वीणामदलकांस्यादिनादवर्धितसंमदम् / .. सेवितं सर्वसामग्रीयुक्तमापानकं मया तत्रानन्ता न चेष्टन्ते; न भाषन्ते च घूर्णिताः / मदेन व्यवहारं च, नैव कुर्वन्ति लौकिकम् अन्येऽप्यनन्तास्तद्रूपाः, सन्ति तत्र जनाः परम् / कार्यं लोकव्यवहृतेस्ते कुर्वन्त्यन्तराऽन्तरा _ 121 . // 114 // // 115 // // 116 // // 117 // // 118 // // 119 //