________________ // 96 // // 97 // // 98 // // 99 // // 100 // // 101 // अतिथेः कुलधर्मादिप्रसङ्गादागतस्य सा / आतिथेयीं वितनुते, न नाम परमात्मनः . स्वचैतन्यगृहात् कर्मफलसंवित्तिलक्षणम् / नोत्सारयति सा हन्त, तृणधूलिकदम्बकम् सत्सङ्गाख्यमविद्यायां, रात्रौ दीपं तनोति न / भार्यारूपेण तदसौ, संपन्ना गृहभङ्गकृत् अनेन घातिकर्माणि, चाण्डालाः प्रातिवेश्मिकाः / खलसङ्गा मता व्याधा, गुणौघमृगघातिनः मैनिका मूर्खतोन्मादा, मेधामीननिबर्हणाः / मिथ्यात्वसञ्चया म्लेच्छ, भाषादेशार्यताभिदः मद्यपाः कुमनोरूपा, व्यत्यासमदंघूणिताः / अविवेकास्थिविक्षेपाशुचीनि प्रक्षिपन्ति ते ततोऽस्य गृहपार्थक्यं, न सतां लक्ष्यतां गतम् / न निन्द्यतां च तादृक्षसर्वतद्ग्रामवासिनाम् . अन्यदा च महात्माऽसौ, पुरे जैनाभिधे गतः / तत्र सत्साधवो दृष्टाः, समताभार्यया युताः स्थिता ज्ञानमहासौधे, भावरत्नकृते नवे / तेजस्विनो महावीर्याः, सर्वदोषविवर्जिताः युताः सत्यादिभिः पुत्रैः, शोभनप्रातिवेश्मिकाः / तात्विकी श्रेयसां भूमि, कलयन्तो गृहस्थताम् तैः सम्यक्त्वौषधीं दत्त्वा, मोहमायाऽस्य संहता / उद्विग्नोऽसौ ततो ज्ञात्वा, स्वीयगार्हस्थ्यदुःस्थताम् गार्हस्थ्यमुररीचक्रे, तां विहायैष तात्त्विकम् / भवग्रामगृहस्थेषु, जाताऽस्याथ महाकृपा 120 // 102 // // 103 // // 104 // // 105 // // 106 // // 107 //