________________ // 132 // // 133 // // 134 // // 135 // // 137 // अन्ये सन्ति मदाध्माताश्चतुर्वृन्दव्यवस्थिताः / सदा केलिप्रियाः संख्याऽतीता नृत्यादिनिर्भराः आपानकस्था मध्यस्थाः, संख्याताः सन्ति चापरे / अमद्यपा मद्यपैस्ते, ब्राह्मणा ईर्ण्ययोदिताः स्थिता अनन्ता मोदन्ते, परे त्वापानकाद् बहिः / आपानकस्य वैषम्यं, पश्यन्तो मदवर्जिताः आद्येषु तत्र लोकेषु, स्थित्वाऽहं मदविह्वलः / गतो दैवाद् द्वितीयेषु तृतीयेषु ततः पुनः इत्थं चैतेषु भेदेषु, त्रयोदशसु हिण्डितः / अनन्तशो विमुच्याहं, भेदमाद्यं तथाऽन्तिमौ पुनर्न दृष्टो मुक्तः स, आद्यभेदः कथञ्चन / . भूयो भूयो गतः पापाद्, दशभेदेष्वहं पुनः विण्मूत्रश्लेष्मजम्बालवान्तपित्ताशुचिस्थले / / क्वचिल्लुठन् क्वचिद् रिङ्खन, दुर्मद्यात् क्वचिदारटन् उत्तिष्ठन् निपतन् धावन्, हसन् नृत्यन् रणं सृजन् / कुट्यमानो जनैर्दुःखधोरणीरनुभूतवान् . . ब्राह्मणैरन्यदा दृष्टस्तैरापानकमध्यगैः / . कृतः कृपालुभिर्मद्यत्याजनाय मयि श्रमः . वचः पूत्कुर्वतां तेषामहं तु मदघूर्णितः / न किञ्चिद् ज्ञातवान् भ्रान्तस्ततस्तत्र पुनः पुनः अथान्यदा क्वचित् तेषां, वचने हुङ् कृतं मया / यतितं तैश्च यावन्मे, मद्यघस्मरको गतः तैर्मद्यदोषाः कथिता, मयि संलब्धचेतने / कारितो मद्यविरति, जातोऽहं ब्राह्मणस्ततः // 138 // // 139 // // 140 // // 141 // // 142 // // 143 // 123