________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // क्षेपोऽत्र घृतकुम्भानां, कषायोद्दीपनं मुहुः / तिष्ठन्ति वारितास्ते च, न मूढा मण्डेलस्थितैः शमाम्बुना न कुर्वन्ति, शान्ति न प्रविशन्ति च / मण्डले नैव शृण्वन्ति हितं हासादि कुर्वते केचिदेव प्रबुध्यन्ते, यथाऽसौ बुद्धिमान् मुनिः / प्रतिबुद्धो गिरा तेषां, प्रविष्टस्तीर्थमण्डले दृष्टाश्चानेन ते लोकाः, संसारग्रामवासिनः / रागद्वेषाग्निनाऽत्यन्तं, दह्यमानाः प्रसर्पता अशुद्धभावपक्नप्रेरितोऽसौ महानलः / दहत्यतिभरीभूतो, जीवान् ग्रामेयकानिव दृष्ट्वाऽसौ तांस्तथाभूतान्, भीतो यत् प्राव्रजद् भवात् / तत् तीर्थमुख्यसाधुत्वं, शिश्रायेति विनिश्चिनु मुनिमध्यस्थितश्चैष, न संसारप्रदीपने / . दह्यते धर्ममेघेन, विध्यापयति तत् परम् . प्रदीपनकमुद्दिष्टं, तदिदं मुनिनाऽऽवयोः / प्रतिबोधाय तद्भावबोधात् प्रीतिमहं गतः भावश्चायं मुनेरत्र, युवयोर्दह्यमानयोः / प्रदीपने ध्रुवं युक्तः, प्रवेशस्तीर्थमण्डले भावोऽयं रोचते मह्यं, तुभ्यं किं रोचते न वा / इति श्रुत्वाऽकलङ्कस्य, वचोऽहं मौनमास्थितः द्वितीयस्य मुनेः पार्श्वमकलङ्को मया सह / गत्वा नत्वाऽथ तं भक्त्याऽपृच्छद् वैराग्यकारणम् स प्राह गृहवासो मे, वैराग्यायनघाभवत् / तथाहि गृहमेकत्र, ग्रामे जीर्णमभून्मम 11. // 66 // // 67 // // 68 // // 69 // // 70 // // 71 //