________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // निशि चौराः समागत्य, खनन्ति तदनारतम् / मुष्णन्ति यदि पश्यन्ति, धनं वचन किञ्चन क्रूराः पतन्ति मार्जारास्तत्र निर्यान्ति पत्रगाः / वृश्चिकाः संचरन्त्युच्चैर्दुःखयन्ति च मूषकाः भग्नाऽभूत् तत्र शय्या मे, वासः शटितमेव च / चौरैर्मुषितवित्तस्य, प्राणवृत्तिश्च भिक्षया कुरूपा दन्तुरा काणा नित्यं कलहकारिगी। भार्या च बह्नपत्यानां, जनयित्री ममाभवत् मलमूत्रैरपत्यानां, नासावशुचि लिम्पति / . गृहं तनोति नातिथ्यमतिथेरागतस्य च पुजं च तृणधूलीनां, गृहानापनयत्यसौ / तमोमय्यां न शर्वां, दीपमुद्दीपयत्यपि, गृहपार्श्वे ममाभूवंश्चाण्डालाः प्रातिवेश्मिकाः / व्याधाश्च मैनिका म्लेच्छा, मद्यपाश्च सहस्रशः अस्थिभिस्तद्विनिक्षिप्तैरन्यैश्चाशुचिसञ्चयैः / नाभूद् गृहविभागो मे, तद्गृहेभ्यः कदाचन / सर्वोऽपि मादृशः प्रायस्तद्गामस्थो जनो यतः / तन्न केनाप्यहं तत्र, निषिद्धो नापि निन्दितः दुरवस्थां गतस्यापि तादृशीं कुरुते रतिम् / विड् गर्ताशूकरस्येव, गृहवासः स मे सदा गृहस्थानन्यदाऽद्राक्षमेकत्राहं गतः पुरे / महासौधस्थितान् पूतांस्तैरहं प्रतिबोधितः तद्ग्रामगृहवासस्य, स्वरूपं तैनिवेदितम् / .. संहृता मोहमाया च स्वतुल्यस्तैरहं कृतः / 118 // 78 // // 80 // // 81 // // 82 // // 83 //