________________ // 8 // // 49 // // 50 // // 51 // // 52 // // 53 // योऽयं लोकोदरो ग्रामः, स्ववासार्हो निवेदितः / मुनिना विद्धि संसारं, तं मित्र घनवाहन ! रात्रिस्तत्र सदाऽविद्या, लग्नं तस्यां प्रदीपनम् / रागद्वेषाग्निना धूमस्तामसो भाव उत्थितः ज्वालौघो राजसो भावो, वंशस्फोटरवोपमाः / / कलहास्तत्र भावाग्नेरुत्तिष्ठन्ति च जन्तवः रुदन्ति डिम्भरूपाभाः, कषाया हृदयग्रहाः / अशुद्धलेश्या संज्ञाश्च, नार्यो धावन्ति विह्वला: भवकोलाहले मूर्खा, रटन्त्यन्धा इवातुराः / . ज्ञानिनोऽपि क्रियाशून्या, जनाः कोशन्ति पङ्गवः उच्चैः किलकिलायन्ते, नास्तिकाः षिङ्गसन्निभाः / मुष्णन्तीन्द्रियचौराश्च, धर्मसर्वस्वमङ्गिनाम् रागाग्निना च दह्यन्ते, सर्वस्वानि शरीरिणाम् / किं कुर्म इति शोचन्ति, तद् दृष्ट्वा कृपणाः परे भवप्रदीपनं रौद्र, वर्णितं मुनिनेदृशम् / . अमातापितृकं चैतदुक्तं त्रातुरभावतः / विबुद्धो मन्त्रवित् तत्र, सर्वज्ञः परमेश्वरः / तेन चोत्थाय विहितं, विशालं तीर्थमण्डलम् गोचन्द्रकाकृतौ तच्च, मध्यलोके प्रकाशितम् / धृत्वा धर्मात्मकवचं, सूत्रमन्त्रस्य रेखया तेन देशनयाऽऽह्वानं, समुत्साह्याङ्गिनां कृतम् / प्राविशन्मण्डले स्तोका, भवस्थानन्तभागगाः कुर्वन्त्यन्ये च नार्यादिपाशस्था धनसंचयम् / . क्षेपोऽयं तृणकाष्ठादे यो जन्मप्रदीपने . 110 // 54 // // 55 // // 56 // // 57 // // 58 // // 59 //