________________ शब्देन तेन महताऽऽहुता ग्रामेयका जनाः / मण्डले मे प्रविशत, यूयमागच्छतात्र भोः // 36 // न सर्वस्वाणि(नि) चाङ्गानि, दह्यन्ते भवतां यथा / . तच्छ्रुत्वा प्राविशंस्तत्र, लोकाः स्वल्पतमाः किल // 37 // ग्रहिला इव शेषास्तु, प्रदीपनकतस्ततः / दह्यमानेषु गेहेषु, तृणकाष्ठादि चिक्षिपुः / // 38 // तस्य विध्यापनं कर्तुमीषुर्घतभृतैर्घटैः / मण्डलस्था जगुर्वह्निशमोपायोऽस्य नैष व:(च) // 39 // जलेन विध्यापयत, वह्नि प्रविशतात्र च / मण्डले यूयमस्माकमिव स्याद् वो यथा सुखम् // 40 // तत् तेषां न वचः केचित, कर्णे नाकर्णयन्त्यपि / केचिद्धसन्ति निन्दन्ति, केऽपि रुष्यन्ति केचन // 41 // मण्डलस्थास्ततो लोकास्तस्थुमौनावलम्बिनः / कैश्चित्तु वचनं तेषामादृते पुण्यभाजनैः . // 42 // ममापि प्रतिभातं तद्, भवितव्यतया वचः / प्रविष्टो द्रुतमुत्प्लुत्य, ततोऽहं तत्र मण्डले // 43 // ते ग्रामीणा मया दृष्टाः, प्राप्य प्रबलमारुतम् / प्रदीपनेन दीप्तेन, दह्यमांना हताशयाः मण्डलस्थेषु लोकेषु, प्रव्रजत्सु कियत्स्वथ / अहं प्रव्रजितो भद्र !, वैराग्ये हेतुरेष मे // 45 // इमां मुनेगिरं श्रुत्वाऽकलङ्को मुदितो हृदि / चलितोऽन्यमुनेः पार्थे, न बुद्धोऽर्थो मया परम् // 46 // अकलङ्को मया पृष्टस्ततः किमयमाह ते / कं भावमाकलय्य त्वं, हृष्टोऽस्यथ जगाद सः // 47 // . 115 // 44 //