________________ // 539 // // 540 // // 541 // // 542 // पपरितम् // 543 // // 544 // हरिर्जगाद यद्येवं, तदाऽहं तेषु कीदृशः। . सूरिः प्राह नरेन्द्र ! त्वं, मध्यमः प्रतिभासि मे त्रिवर्गमाराधयसि, यद् विभज्य दिवाऽनिशम् / / इदं मध्यमराज्यस्य, लक्षणं च प्रकीर्तितम् हरिर्मोहकरिध्वंसहरिमाह ततो गुरुम् / अलं मध्यमराज्येन, ममानेनागरीयसा आत्मीयमुत्तमं राज्यं, भदन्त ! मम दाप्यताम् / सूरिराह महाराज, त्वया चारु विचारितम् महान्तो नैव तुष्यन्ति, स्वल्पेन विपुलाशयाः / मृगवत् किं मृगारातिस्तृणग्रासेन तृप्यति आपातरम्यं तुच्छं च, त्यजन् वैषयिकं सुखम् / मुक्तावुत्तिष्ठते भव्यो, भवं स्वप्नोपमं विदन् यदि त्वमौत्तमं राज्यमादातुमभिकाङ्क्षसि / तदा भागवतीं दीक्षां, गृहाण भवनाशिनीम् इदं सूरेर्वचः श्रुत्वा हृष्टो हरिनरेश्वरः / पुत्रं शार्दूलनामानं, राज्ये संस्थाप्य चारुधीः दिनान्यष्ट जिनेन्द्राणां, कृत्वा पूजामहोत्सवम् / दत्त्वा दानं तथाऽर्थिभ्यो, गुरून् सत्कृत्य भावतः समं मयूरमञ्जर्याऽनेकैश्च नृपपुङ्गवैः / तस्योत्तमगुरोः पार्श्वे, निष्कान्तः शान्तशात्रवः ततः प्राप्यौत्तमं राज्यं, विज्ञानानन्दमेदुरः / विजहार महोदारमानसः पृथिवीतले राज्ये परिणते तस्य, पर्यायात् समवर्धत / . शुक्लस्य शुक्लजात्यस्य, स्वभावजनितं सुखम् // 545 // // 546 // // 547 // // 548 // // 549 // // 550 // 110