________________ // 527 // // 528 // // 529 // // 530 // // 531 // // 532 // राज्यषट्कमिदं ज्ञात्वा, सर्वं ज्ञातं मया किल / ईदृग्विवर्तभृद् विश्वं, तथा चाहुर्मनीषिणः येन संवत्सरो दृष्टः, संकृत् कामश्च सेवितः / . तेन सर्वमिदं दृष्टं, पुनरावर्तकं जगत् ततो जातः प्रबुद्धोऽसौ, नष्टा सर्वाऽप्रबुद्धता / इदं प्रसङ्गतः प्रोक्तं, मया तुभ्यं नरेश्वर ! कथं दोषोऽन्यदोषेण, स्यादिति प्रस्तुतं पुनः / निकृष्टाधमवत् तत्र, निश्चेयो दोषसंक्रमः यथा मोहादिभिश्चौरैस्तौ दृष्ट्या च प्रपीडितौ / तथाऽसौ मित्रदोषेण, पीड्यते धनशेखरः हरिराह महासाधो !, नष्टोऽयं मम संशयः / गतेषु तेषु भूपेषु, षट्सु किं भावि तद् वद . सूरिराह महाराज !, ये केऽपि भुवि देहिनः / . ते कर्मपरिणामस्य, पुत्राः सर्वेऽपि तत्त्वतः . आवर्तमानैस्तैः सर्वैः, षड्भेदान्तर्भविष्णुभिः / सा स्थिति: पाल्यतेऽन्यान्यनिर्लेपश्च न जायते तिष्ठन्त्वन्ये सुतास्तस्य, विद्धि मामेव तत्सुतम् / स्वराज्ये यः प्रविष्टोऽहं, सिद्धान्तोक्तेन वर्त्मना हतारिवर्गश्चारित्रसैन्यस्य परिपोषकः। . भुआनो राज्यमायातः, ख्यातकीर्तिरिहोत्तमः स्वसंवेदनसिद्धं मे, यद् राज्ये परमं सुखम् / स्वप्नेऽपि नास्ति तद् राजन् ! शकचक्रभृतामपि यथाऽहमुत्तमः कर्मपरिणामस्य नन्दनः / निकृष्टाद्यास्तथान्येऽपि, सन्त्यनन्ताः प्रवाहगाः // 533 // // 534 // // 535 // // 537 // // 538 // - 109