________________ // 407 // // 408 // // 409 // // 410 // // 411 // // 412 // हास्यं स धार्मिकं लोकं, दिनेशमिव कौशिकः / पापं च मन्यते श्लाघ्यं, संघातं तमसामिव अन्यदा प्रेक्ष्य मातङ्गी, युवती रूपशालिनीम् / तस्यामध्युपपन्नोऽभूदसावकलितायतिः ततश्चै बहिश्चक्रुर्बहिरङ्गजना अपि / त्यज्यते ह्यङ्गजातोऽपि, मलवन्मलिनो जनः राज्याद् दुष्पालितात् कर्मपरिणामेन दारुणाम् / ततो दशां निकृष्टस्य, नीतोऽसौ पापिपञ्जरे जातो विमध्यमो राजा, वत्सरेऽथ तृतीयके / महामोहं जगौ मन्त्री, डिण्डिमोद्घोषणे श्रुते निम्नदेशे जलस्येव, गतिः सैन्येऽस्य नः सदा / . चारित्रधर्मसैन्येऽपि, स्यादूर्ध्वं च प्रयोगतः दृढादरोऽसौ सैन्ये नः, परस्य शिथिलादरः / ऐहिकार्यरतो मध्ये, परलोकमपीक्षते सदैव प्रतिबद्धोऽसौ, भावतो धनकामयोः / कदाचिद्धर्मकार्येऽपि, भवत्यार्यमति: परम् भद्रकः स्तुतिकृत् प्राज्ञः, सर्वदेवतपस्विनाम् / दानशीलपरः पूतः, सच्छास्त्रार्थाविदूषकः . अस्माकं नातिहितकृत्, तदसौ देव ! भूपतिः / प्रवेशनीयो नो राज्ये, धर्तव्योऽधमवद् बहिः तथाऽस्त्विति नृपेणोक्ते, सर्वैर्दृष्टिपुरःसरैः / असौ बहिर्द्धतश्चौरैस्तद्राज्यं च वशीकृतम् नात्यन्तं पीडितः कर्मपरिणामाज्ञया पुनः / अपेक्षाऽकारि चारित्रधर्मसैन्ये च काचन // 413 // // 414 // // 415 // // 416 // // 417 // // 418 //