________________ // 383 // // 384 // // 385 // // 386 // // 387 // // 388 // सैन्यं चारित्रधर्मस्य, जित्वा तत् तैर्वशीकृतम् / निकृष्टस्तु बहिस्तस्थौ, तैर्बादं गलहस्तितः अहं जनेषु बाह्येषु, तं दिक्षुस्ततो गतः / राज्यभ्रष्टस्तत्र दृष्टो, निकृष्टो नृपतिर्मया पापकर्मरतः क्रूरो, मत्सरी लोकनिन्दितः / पुरुषार्थपरिभ्रष्टो, मलक्लिन्नकलेवरः तृणकाष्ठादि विक्रीय, स लेखानयनेन वा / करोति कर्मभिर्निन्द्यैर्दुष्पूरोदरपूरणम् ये केऽपि क्रूरकर्माणः, श्वपाकाद्याः सुदुःखिताः / तेषां रूपं भजत्येष, तथाऽप्याद्रियते द्विषः महामोहाभिभूतेन, राज्यं दुष्पालितं त्वया / इति तस्मै नृपः कर्मपरिणामञ्चकोप च / क्षिप्तो दुःखानि सहते, तेनासौ पापिपञ्जरे / इदमज्ञानजं तस्य, जातं दुःखकदम्बकम् / राज्यं वर्षे द्वितीये भूदधमस्य तथाऽखिला / डिण्डिमोद्घोषणात् सैन्यद्वये वार्ता च पूर्ववत् अवर्णयद् गुणांस्तस्य, महामोहाय मन्त्रिराट् / ईदृगेषोऽधमः कर्मपरिणामेन निर्मितः .. अर्थकामकृतासङ्गो, विद्वेषी धर्ममोक्षयोः। परलोकानपेक्षश्च, तप:शीलविदूषकः चारित्रधर्मसैन्यस्य, द्वेष्टाऽस्मद्बलभक्तिमान् / तदेतस्यापि यद् राज्यं, तदस्माकं न संशयः केवलं न प्रवेश्योऽसौ, भुक्तिदेशे यदत्र नः / प्रविष्टश्चेष्टितं विद्याद्, वीर्यमस्त्यस्य किञ्चन // 389 // // 390 // // 391 // // 392 // // 393 // // 394 //