________________ येनेदमीदृशं राज्यं, संप्राप्तं भूरिभूतिभृत् / अहो सोऽस्मदधीनोऽभूदिदं राज्यं हितं हि नः .. // 371 // महोत्सवो ययौ स्फातिमेवं तन्नगरादिषु / मुदिता घातिचरटाः, प्रभविष्याम इत्यलम् . // 372 // हरिष्याम इति प्रीति, दधुरिन्द्रियतस्कराः। कषायलूषकाः स्फाति, लूषयिष्याम इत्यधुः // 373 // नोकषायाख्यलुण्यका, उपसर्गपरीषहाः / भुजङ्गाश्च प्रमादाख्या, षिङ्गाश्च ननृतुस्तराम् // 374 // चारित्रधर्मसैन्ये च, श्रुत्वा तां राज्यघोषणाम् / राज्ञां क्षोभो महान् जातः, सद्बोधश्चाब्रवीत् तदा // 375 // देव ! राजा निकृष्टोऽयं, राज्यनामापि वेत्ति न / द्विषां नः पक्षपात्येष, संवित्ते जातु नैव न // 376 // महामोहादिभिस्तावदेकं वित्रासिता वयम् / द्वितीयमीदृशः स्वामी, दैवो दुर्बलघातकः // 377 // उपप्लवाय तदसौ, धूमकेतुर्न उत्थितः / इदं मन्त्रिवचः श्रुत्वा, भीताः सर्वे नरेश्वराः // 378 // श्रुत्वा निकृष्टराज्यं तत्, संजाता दीनविह्वलाः। लोकाः सात्त्विकचित्तादिनगरेषु च भूरिषु // 379 // महदन्तरमुवीक्ष्य, सैन्ययोरथ तादृशम् / विपुलानन्दशोकाभ्यां, जातं मे कौतुकं महत् // 380 // चिन्तितं च मया प्रेक्षे, निकृष्टोऽसौ व तिष्ठति / यद्वा द्रक्ष्यामि राजानं, राज्यार्थं तमिहागतम् // 381 // तावत् तस्य स्वयं राज्यं, महामोहादितस्करैः / / . अधिष्ठितं ततस्तत्र, प्रवेष्टुं न शशाक सः // 382 // CG