________________ // 311 // // 312 // // 313 // // 314 // // 315 // // 316 // विद्यते तनये तस्या, उभे विततलोचने / एका ब्रह्मरतिर्माम, द्वितीया मुक्तताऽभिधा यदा ते कन्यके भार्ये, लप्स्यसे धनशेखरः / आभ्यां पापवयस्याभ्यां, तदा नूनं वियोक्ष्यते तयोविलासमासाद्य, गलद्वेद्यान्तरप्रथम् / ज्ञानानन्दघने स्थाने, शिवे स्थास्यति निर्भयः ततो हरिनरेन्द्रेण, पुनः पृष्टः स सूरिराट् / लप्स्यसे ते कथं कन्ये, भगवन् ! धनशेखरः सूरिराह महाराज ! प्रतीतो हि भवादृशाम् / स कर्मपरिणामाख्यो, राजाऽस्ति गुरुविक्रमः प्रसनस्तव मित्राय, स कन्ये दापयिष्यति / नात्र कश्चिदुपायोऽन्यस्तन्मुञ्चाकुलचित्तताम् तदाकर्ण्य वचः सूरेभूत्वा मयि निराकुलः / . कृताञ्जलिः पुनः प्रोचे, सूरिराजं हरिनृपः . भदन्त ! यत् त्वया प्रोक्तं, पापमित्रप्रसङ्गतः / तेन घोरं कृतं कर्म, प्रकृत्या तु स निर्मल: संशये तत्र किं प्राणी, स्वरूपेणापि निर्मलः / परदोषेण दुष्टः स्यात्, सूरिणोक्तं भवेत् तथा लोकानामन्तरङ्गाणां, दोषाः सांक्रामिका ध्रुवम् / एवं कथानकं राजन् !, शृणु तत्र समाहितः प्रतीतमेतद् यत् कर्मपरिणामस्य भूभुजः / देव्याः कालपरिणतेश्चापत्यानि बहून्यपि खलग्दोषतो भीतैरविवेकादिमन्त्रिभिः / विनिहनुतानि विद्यन्ते, भुवने स्थितिवेदिभिः // 317 // // 318 // // 319 // // 320 // // 321 // // 322 //