________________ प्रविश्य कर्णेऽथ स मां बभाषे, वैश्वानरोऽप्यस्ति खलस्वभावः / परीक्षणीयस्तदसौ विशिष्य, मा भूदितोऽनर्थपरम्परेति // 276 / / तैदूर्यमानो वचनैस्तदानीं, वैश्वानरेण स्फुटमीक्षितोऽहम्।.. तत्संज्ञया क्रूरमनःप्रणीतां, भुक्त्वा गुटीं भूतवदुत्थितो द्राक् // 277 / / करालवक्त्रेण मया कपोल-भेत्री चपेटा विदुरस्य दत्ता। प्रवृद्धतापः फलकं गृहीत्वा, पुनः प्रहर्तुं च समुद्यतोऽहम् // 278 / / ततश्च नंष्ट्वा स गतः- प्रकम्प्र-स्तातस्य पार्श्व कथिता प्रवृत्तिः / वैश्वानरत्यागविधावयोग्यं, ततः स मां चेतसि निश्चिकाय॥ 279 // अथ स्थितः पूर्णकलाविलासो, रम्ये गृहेऽहं सुखसिन्धुमग्नः / कान्तः कलापेन शिखीव नारी-नेत्रोत्सवाझै नवयौवनेन // 280 // ताताम्बादिनति कृत्वा, प्रभातेऽहमथान्यदा / समागतः स्वभावेन, निविष्टो विष्टरे सुखम् // 281 // इतश्चाकाण्ड एव द्रागुत्थितो राजमन्दिरै / कोलाहलस्ततश्चाहं, जातः सम्भ्रान्तमानसः . // 282 // धवलाख्यस्तदागत्य, मां बलाधिकृतो जगौ / देवः समादिशत्येवमागन्तव्यं त्वया जवात् // 283 // तातापमानादायातः, कुशावर्तपुरेशितुः / . राज्ञः कनकचूडस्य, सुतः कनकशेखरः // 284 // तं बन्धुं तेऽभिगच्छामि, विलम्बस्तव मा च भूत् / इति श्रुत्वा द्रुतं गत्वा, मिलितोऽहं पितुर्बले // 285 // पृष्टो मयाऽथ धवलः, कथं कनकशेखरः / अस्माकं बन्धुरथ स, प्राह कोमलया गिरां // 286 // भ्राता कनकचूड: स्यान्नन्दायाः सुन्दराकृतिः / तेन मातुलसूनुस्ते, भ्राताऽयं भ्रातृवत्सल // 287 //