________________ नृपो बभाषे विधृतो मयाऽयं, दीक्षा सहाऽनेन ममोचितेति। अतः परं त्वद्वचसा विसृष्टः, कर्तव्यमहँ(ह) त्वधुना विधेयम् // 264 // ततः प्रशस्तं दिनमाकलय्य, सप्तग्रहाङ्के वृषलग्नयोगे / रथस्थितो मन्त्रिगिरोत्सवौघै-नॅपेण नीतः स गुरोः समीपम् // 265 // रथादथोत्तीर्णममुं महीशः, परीक्षते स्म क्षितिपौघयुक्तम्। विकारहेतावपि तस्य चित्त-मलक्षयन्मृत्पुटपाकशुद्धम् // 266 // भृशं दिदीपेऽस्य शरीरमन्त-र्दीतस्य सङ्गान्मनसस्तथोच्चैः। यथा पुरःस्थो ददृशे नृपौधः, सूर्यप्रभाच्छादिततारकाभः // 267 // विलीनमोहोऽथ नृपस्तदीय-गुणप्रकर्षे बहुमानभावात्। अभ्युत्थितः संयममाशु लातुं, तथैव देवी च सुबुद्धिमन्त्री // 268 // तान् दीक्षयामास गुरुः सहर्षान्, प्रसद्य सर्वानपि शास्त्रनीत्या। ददौ च तेषामनुशिष्टिमुच्चैः, संवेगवल्लीवनवारिधाराम् // 269 / / न बालवृत्तं विदुषा विधेयं, मनीषिवृत्तं परिशीलनीयम्। अनुष्ठितादेव मनीषिवाक्यात, स्युस्तादृशा मध्यमबुद्धयोऽपि // 270 / / कार्यो न सङ्गः सह पापमित्रै-स्तत्सङ्गतो मृत्युमवाप बालः। सदैव तत्त्यागपरो मनीषी, धर्मं च सौख्यं च यशश्च लेभे // 271 // गुणावहः सज्जनसङ्गमः स्या-दनर्थहेतुः खलसङ्गमश्च। स्फुटं द्वयं तत्खलु मध्यबुद्धौ, विमृश्य यच्चारु तदेव कार्यम् // 272 // एतां समाकर्ण्य मुनीन्द्रवाचं, बुद्धास्तदानीं बहवो मनुष्याः। क्रमाद् ययौ मोक्षपदं मनीषी, दिवं परे मध्यमबुद्धयश्च // 273 // इमां समाकर्णयतः कथां मे, गतं दिनं तेन न वः समीपे। समागतो ह्योऽभिदधे मयाऽपि, श्रव्या कथेयं खलसङ्गहाने // 274 // वचोऽवकाशं विदुरोऽथ जानन्, मामाह मा भूत् खलसङ्गमस्ते। वैश्वानरोऽत्र चकितस्तदानी, प्रोक्तं भूमयाऽसौ न ममास्ति कोऽपि // 275