________________ इत्युक्तभावार्थरसज्ञमग्रे, शुश्रूषया विस्मितमीक्षमाणः। मनीषिणं मध्यमधी भाषे, किं तत्त्वमुत्प्रेक्ष्य सुभावितोऽसि // 204 // स प्राह मित्रायमगूढ एव, भावश्चमत्कारकरो न किं स्यात् / यदुर्जयं यच्च दुरन्तदोषं, तवैव तत् स्पर्शनमित्रमुक्तम् // 205 // चमत्कृतो मध्यमधीरपीदं, श्रुत्वा स्म बालस्तु न वेद किञ्चित्। . दत्तैकदृष्टिर्मनुजेशपत्न्या-माचार्यवाक्यश्रुतिविस्मितायाम् // 206 // स्मिताम्बुपूरे घनकेशपाश-ध्वान्ते च मग्नं स्तनपर्वतेऽस्याः / भग्नं च भिन्नं च कटाक्षबाणै-मनोऽस्य पर्याकुलतां जगाम // 207 // न ब्रह्मणो ब्रह्मविदः किलेयं, स्मरस्य शृङ्गारविदस्तु सृष्टिः। .. अर्धेक्षितैर्मामियमीक्षमाणा-ऽभिवाञ्छतीत्येष मृषाऽभिमेने // 208 // सूरिर्बभाषे कथितं स्वरूप-मत्युत्तमानां तदथोत्तमानाम्। ब्रवीमि यैः स्पर्शनमेतदाप्य, मानुष्यकं शत्रुतयाऽवबुद्धम् // 209 // बोधप्रभावेन च मूलशुद्धि, विधाय तस्मिन् चकिता भवन्ति। उपेक्षितायोग्यजनाश्च मार्गा-वतारनिष्ठाश्च निजाश्रितानाम् // 210 // स्थित्यै तनोस्तत्प्रियमाचरन्तो-ऽप्यपास्तलोभा भृशमुत्तमास्ते। स्वस्मिन् मनीषी श्रुतमेनमर्थ-मयोजयन्मध्यमधीश्च तस्मिन् // 211 // स्वरूपमुच्चैरथ मध्यमानां, जगौ गुरुः स्पर्शननोदिता ये। मुह्यन्ति संसारसुखे विचित्रे, संशेरते पण्डितनोदिताश्च // 212 // दधत्यलं भेदिनि योगिभोगि-मतद्वये कालविलम्बपक्षम्। स्पर्शानुयाता अपि लोकलज्जा-गुणान्न कुर्वन्त्यतिनिन्द्यकर्म // 213 // बुद्ध्वाऽपि वाक्याद् विदुषां विशेष-मदृष्टदुःखा न तथाऽऽचरन्ति। अकीर्तिभाजश्च जघन्यसङ्गात्, कुर्वन्ति विद्वद्वचनानुवृत्तिम्॥ 214 // ते मध्यमा मध्यमबुद्धयः स्यु-रितीदमाकर्ण्य स मध्यबुद्धिः / स्वस्मिन् स्वसंवेदनतो युयोज, सर्वं मनीषी तु विविच्य तस्मिन् // 215 //