________________ तत् किं न सर्वेऽपि सृजन्ति धर्म-मिति ब्रुवाणं पुनराह सूरिः। हितेऽपि दुष्टेन्द्रियमोहितत्वात्, प्रवर्तते न स्वरसेन लोकः // 192 // उन्मत्तमासाद्य भृशं प्रहष्यन्नुभूलयन् भूतिमुदारशक्तिः। अलङ्कृतो भोगिभिरिन्द्रियौघो, नृणां स्फुटं शङ्कर एव भाति // 193 // पथप्रवृत्तानपि शास्त्रपाठ-कशाप्रहारानवधीरयन्तः।। हृत्वा जनानिन्द्रियशूकलाश्वा, नयन्ति संसारवनं दुरन्तम् // 194 / / धृत्वा किलाग्रेषु कराङ्गुलीनां, ये दण्डवत् क्ष्मामपि नाटयन्ति। तेऽपीन्द्रियैर्नाटितमिन्द्रमुख्या-नात्मानमुद्धर्तुमहो समर्थाः // 195 / / तस्मान्महाराज! सुदुर्जयानां, मन्तुः समग्रोऽप्ययमिन्द्रियाणाम्। उपेयवाञ्छाविपरीतवृत्ति-नृणामुपायेष्विह या प्रवृत्तिः // 196 // उक्त्वेति सामान्यत एव सूरि-र्मनीषिबोधाय जगौ विशिष्य। दूरे किलान्यानि जगज्जयाय, राजन्नलं स्पर्शनमेकमेव // 197 // इदं हि तीक्ष्णेषुरिवाङ्गभाजां, हृदि प्रविश्यैव भिनत्ति मर्म। व्याप्यैव देहं प्रवितीर्णदाह, प्रत्याहृतेर्दुर्लभतां तनोति // 198 // राजाऽऽह किं सन्ति न सन्ति वा त-ज्जये समर्था जगतीह लोकाः। गुरुर्जगौ सन्ति परन्तु तेऽत्र, स्तोका मनुष्याः शृणु तत्र हेतुम् // 199 // चतुर्विधाः सन्ति जघन्यमध्यो-त्कृष्टास्तथोत्कृष्टतमाश्च लोकाः / अत्युत्तमास्तत्र च ते निरस्तं, यैरेतदाप्तागमवासनाभिः // 200 // ते ब्रह्मचर्यैकरता गृहेऽपि, दीक्षां पुनर्भागवतीमवाप्य। भूस्वापलीचादिविशिष्टकष्टै-निर्धूय तन्मोक्षसुखं लभन्ते // 201 // आकर्ण्य कर्णामृततुल्यमेतद्, वचो विचारं विदधे मनीषी। गुरुर्जगौं स्पर्शनमीदृगेव, बोधप्रभावो निजगाद यादृग् // 20 // नूनं तदेतत्पुरुषच्छलेन, प्रतारणायोपनतं जनानाम्। चिक्षेप यश्चैतदसङ्गयन्त्रे, महोत्तमोऽसौ भवजन्तुरेव // 203 //