________________ वृत्तान्तमाकर्ण्य मनाक् तमासीत्, प्रेम्णो लवान्मध्यधियो विषादः। . मनीषिवाक्यस्मरणप्रभावा-च्चित्तेऽस्य माध्यस्थ्यमथोल्ललास // 180 // अथान्यदा स्वीयविलाससंज्ञे, सूरिखने ज्ञानरतिः समेतः। तृष्णालतायाः परशुर्मनीषा-चक्रस्य नाभिर्नयसिन्धुचन्द्रः / // 181 // और्वानलो लोभमहार्णवस्य, महौषधि: क्रोधभुजङ्गमस्य। वज्रं स्मयाद्रेरनवद्यविद्या-वतारतीर्थं निकृतिद्रुमाग्निः // 182 // अत्रान्तरे स्पर्शनसंगहातु-र्मनीषिणः कर्मविलासराजः / इच्छन् प्रदातुं कुशलानुबन्धं, व्यापारयामास भृशं तदम्बाम् // 183 // दध्यौ च यद्यप्ययमेति नित्यं, भोगानभिष्वङ्गसुखं तथापि। छायैकदानादिव मे सुरद्रो-स्मिाद् यशस्तेन बहु प्रदेयम् // 184 / / अधिष्ठितोऽसौ निजयोगशक्त्या, मात्राऽथ पित्रा विहितप्रसादः / सिक्तोऽमृतेनेव वने प्रवृत्तो, गन्तुं गुरोरोगमनं निशम्य // 185 // आकारयामास स मध्यबुद्धि, नृपेण तस्यापि च संज्ञिताऽम्बा। सा तुल्यवीर्येति विचित्रकार्या, तनौ तदा मध्यधियः प्रविष्टा // 186 // ऐच्छत् ततः सोऽपि च तत्र गन्तुं, बालो बलामोटिकया प्रवृत्तः / त्रयोऽपि तत्रोपगता विशालं, प्रमोदमौलिं दृदृशुर्जिनौकः // 187 // जिनेन्द्रबिम्बं प्रणिपत्य तत्र, मनीषिणा दक्षिणभागनिष्ठः / आगामिभद्रेण गुरुर्ववन्दे-ऽनुरोधतो मध्यधियाऽपि तस्य // 18 // बालः पुनः स्पर्शनमातृदोषात्, तत्स्थावनम्रोऽथ मुदा समीयुः / सुबुद्धिमन्त्री रिपुमर्दनश्च, राजा च देवी स्मरकन्दली च // 189 / / तेषूपविष्टेषु विधेः प्रणम्य, धां गिरं ज्ञानरतिदिदेश। . उत्सर्पिसिद्धान्तसमुद्रवेला-स्फुटीभवद्भरिनयोर्मिलीलाम् // 190 // अत्रान्तरे प्राह महीमहेन्द्रः, स्वामिन् ! किमादेयमिहास्ति लोके। सूरिर्बभाषेऽनघ! धर्म एव, सतामुपादेयतया प्रसिद्धः // 191 //