________________ द्वारेऽथ संस्थाप्य वयस्यमेको, मध्ये प्रविष्टः सहसैव बालः / पस्पर्श तत्राब्जमृणालमृवी, प्रसुप्तकन्दर्परति स शय्याम् // 144 // प्रसृत्वरस्पर्शनमातृदोषः, सुष्वाप तत्राथ विहाय भीतिम् / इतश्च देवी रिपुमर्दनस्य, तत्रागता मन्मथकन्दली द्राक् // 145 // असौ स्थितः काष्ठमिवाथ लीनो, लज्जाभयाभ्यां प्रविलुप्तचेष्टः / पस्पर्श बालं रतिकामयुग्मं, साऽप्यर्चयन्ती सुविलेपनेन // 146 // तप्तायसि क्षिप्त इवाथ मीन-स्तं स्पर्शमासाद्य स तापमाप / इयं क्व लभ्येति मुहुः शुशोच, तत्रैव निःश्वासततीर्मुमोच।। 147 // अस्यां गतायामपि कामदेव-पूजां विधाय क्षितिपालपल्याम् / निर्याति बालो न बहिः करोति, कार्य किमित्युत्थितसंभ्रमोमिः॥ 148 // मध्ये गतो मध्यमधीरथोच्चैः, शय्यासुखस्पर्शहतोऽपि दध्यौ। सतां न गम्या सुखदाऽपि शय्या, देवाश्रिता रूपवतीव माता // 149 // जगौ च बालं ननु देवशय्या-स्वापो न युक्तस्तव मित्ररूप। उपेक्षितं तस्य वचोऽपि तेन, तद्व्यन्तरोऽथ प्रचुकोप तस्मै // 150 // बद्ध्वा कृतस्तेन स कण्ठगासुः, प्रमोचितो मध्यमबुद्धिनाऽथ। भृशं पतित्वा पदयोर्दयोच्च-स्वान्तेन सर्वैरपि गहितोऽसौ // 151 // शिक्षाऽसहं कर्मविलासराजस्तं दुविनीतं परिभाव्य रुष्टः। अवारयत् स्वं परिवारमेवं, विषद्रुमेऽस्मिन्न हितं विचिन्त्यम् // 152 // पृष्टोऽन्यदा मध्यमबुद्धिनाऽसौ, कश्चिन्निराबाधमिदं वपुस्ते। स प्राह बाधा न शरीरके मे, चित्ते परं मन्मथकन्दली या // 153 / / दध्यावथो मध्यमधीर्मनोऽस्य, स्थाने यदेषाऽतिशयस्य भूमिः / द्वारि स्थितोऽस्याः सुखमन्वभूवं, स्पर्शस्य यत् क्वापि हि तन्न लभ्यम् 154 परं परस्त्रीगमनं कुलस्य, कलङ्क इत्येनमवारयत् सः। स प्राह नायुर्मम तां विनेष्टं, मौनं ततो मध्यमधीश्चकार // 155 // 70