________________ दृष्टार्थरागी करभो न वेत्ति, रसं ह्यदृष्टार्थकथासितायाः / बालेरणायासमिति प्रहाय, तूष्णी स्थितः स्वार्थपरो मनीषी॥ 96 // अथागतः कर्मविलासराज-सामान्यरूपातनयोऽन्यदेशात् / तं स्पर्शनस्तौ च समालिलिङ्गु-र्बालेरितः स्पर्शनमेष भेजे // 97 // तेनापि विस्मापितमस्य चेतो, जगौ मनीषी पुनरस्य दोषम् / फलानुभूतेरविशङ्कयभावाद्, द्वयोः स वाक्येऽजनि संशयालुः // 98 // अम्बां स पप्रच्छ विशिष्य तत्त्वं, जिज्ञासमानोऽथ जगाद साऽपि / द्वयानुरोधादविरोधभाजा, ग्राह्यस्त्वयेद्धोऽवसरे हि पक्षः // 99 // अर्थद्वये भेदिनि संशयालुः, कुर्वीत यः कालविलम्बपक्षम् / मनोरथः सिद्ध्यति तस्य नूनं, सिद्धो यथोच्चैमिथुनद्वयस्य।। 100 // ऋजोर्नृपस्य प्रगुणाख्यदेव्याः, पुत्रोऽस्ति मुग्धः स्मरतुल्यरूपः / तस्यास्ति भार्याऽकुटिलाभिधाना, पुलोमपुत्रीरतिरूपजैत्री // 101 // मुग्धोऽन्यदा नूतनचूतवल्ली-विलासरम्ये विपिनं वसन्ते / गतः सभार्यः कुसुमोच्चयाय, प्राक्सूर्यपूर्त्यागमनं नियम्य॥ 102 // इतश्च कालज्ञविचक्षणाख्यं, तत्रागतं व्यन्तरयुग्ममाशु / कालज्ञचेतोऽकुटिलां निरीक्ष्य, क्षुब्धं तदासीद्धृतकामफेनम्।। 103 // विचक्षणाया अपि मुग्धरूपे, कूपे मनो दर्दुरवनिमग्नम् / द्वाभ्यां द्वयोर्वञ्चनतत्पराम्यां, रूपं परावृत्य मुदोऽनुभूताः // 104 // गृहागतं तन्मिथुनद्वयं च, स्नेहाब्धिबिम्बोदयवद्दिदीपे / अयं प्रसादो वनदेवताया, इति प्रतीत्यर्जुरवाप तोषम् // 105 // सर्वोऽपि हर्ष प्रगुणादिवर्गः, केलिप्रियः कालविदप्यवाप / विचिन्त्य भार्याचरणं विरूपं, तां हन्तुमैच्छत् स च दुष्टशीलाम्॥ 106 / / पुनः स दध्यौ ननु तुल्यशीला-वावां हतायां च मयाऽङ्गनायाम् / रक्ता नृशंसेऽकुटिला मयि स्या-नेत्याश्रितः कालविलम्बपक्षम् // 107 // ou