________________ विचक्षणाऽप्येवमवेत्य तस्था-वुभौ मनुष्याचरणे प्रवृत्तौ / अथान्यदा मोहलयाभिधाने, सूरिखने बोधरतिः समेतः // 108 // राजा गतस्तत्पदवन्दनार्थं, श्रोतुं निविष्टो वचनामृतं च / .. कालज्ञमुख्या अपि तं प्रणम्य, तुष्टा यथास्थानमथोपविष्टाः // 109 / / दुरन्तदोषं विषयानुषङ्गे, त्यागे च सौख्यातिशयं गुरूक्तम् / श्रुत्वा विलीने घनमोहजाले, सद्दर्शनं व्यन्तरयुग्ममाप * // 110 // विनिर्गतैर्दागथ तद्वपुर्त्यां, श्यामैश्च रक्तैर्घटिताणुपुजैः। दूरे स्थिता कापि पराङ्मुखी स्त्री, ज्वालेव धूमैर्मलिना कृशानोः 111 // विषद्य कालज्ञविचक्षणाभ्यां, दुःशीलभावानुशयोद्गताऽऽशु। शुद्धिः कथं नौ भवितेति पृष्टः, प्रकृष्टयोगो भगवानुवाच // 112 / / अयं हि भद्रौ ! युवयोर्न दोषः, स्वरूपतो निर्मलयोः सदैव। अस्याः परं दूरमवस्थिताया, नार्या अनार्याचरणे रतायाः // 113 // पृष्टोऽथ ताभ्यां भगवन्नियं का, दुष्टाऽथ स प्राह महानुभावः / प्रवर्तिका दोषगणस्य धर्म-निवर्तिकेयं ननु भोगतृष्णा // 114 // करालकालानलकालमेघ-संमूर्छितेव प्रलयस्य वृत्तिः / रजस्तमोभ्यामवगुण्ठितेयं, भयाय केषां न विवेकभाजाम् // 115 // तावाहतुर्मुक्तिरनिष्टशक्ते-रस्याः सकाशात् कथमावयोः स्यात् / ज्ञानी जगावन्यभवे भवित्री, मोहोल्बणत्वान्न पुनर्भवेऽस्मिन् // 116 / / अस्याः परं निर्दलनाय वज्र, सम्यक्त्वमाप्तं सुदृढं भवद्भ्याम् / उद्दीपनीयं मुहुरेतदेवं, तनूभवित्री खलु भोगतृष्णा // 117 // श्रुत्वैतदाश्वासमुपागतौ ता-वथ स्वदुष्टाचरणानुतापात् / . ऋजुर्महीशः प्रगुणा च देवी, यान्ति स्म मुग्धोऽकुटिला च खेदम् 118 // अथो चतुर्णामपि विग्रहेभ्यो, विनिर्गतं पाण्डुरडिम्भरूपम् / यूयं मयोच्चैः परिरक्षितानि, भयं न युष्माकमिति ब्रुवाणम् // 119 / / 76