________________ अथान्यदा तेन सदागमस्य, वचः पुरस्कृत्य कदथितोऽहम्।। यास्याम्यगम्यं भवतः पदं द्राग, इतीरयित्वा स जगाम मोक्षम्॥ 60 // मित्रस्य तस्याहमसौ वियोगा-न्मर्तुं प्रवृत्तोऽस्म्यसुखात्ययाय। . इतीरिते स्पर्शनपूरुषेण, बालोऽब्रवीत् तं प्रतिबन्धहेतोः // 61 // निदर्शनं त्वं किल सज्जनानां, स दुर्जनानां भवजन्तुरेव / प्रतारकाणां च सदागमोऽसा-विति त्वयि स्नेहपरोऽस्मि बाढम्।। 62 // तेनापि मैत्र्यं प्रतिपन्नमस्य, विचिन्तयामास पुनर्मनीषी। सदागमस्त्याजयितुं यतेत, हातुं न मित्रं सहजं सुधीश्च // 63 // / तत्स्पर्शनोऽयं ननु कूटभाषी, बालेन बालोचितमेव तेने / ध्यात्वैवमेतेन दधौ स मैत्री-माभासमात्रान तु चित्तभावात् // 64 // न्यगादि ताभ्यामिदमाशु पित्रो-वृत्तं पिता प्राह शुभं व्यधायि / सदातनः स्पर्शननिर्मितेऽर्थे, तस्य स्वभावः प्रतिकूलवृत्तिः // 65 // ततस्तदासङ्गपरं स बालं, क्षिप्नुः कुविद्यागहने जहर्ष / तद्वर्जनोपायपरं परन्तु, संयोजयिष्यन् गुणधोरणीभिः // 66 // बालस्य माता तु तुतोष यस्मात्, सा स्पर्शनाधीननिजेष्टसिद्धिः / मनीषिमाता तु बभार खेदं, स्मृत्वा चिरं तद्विहितव्यलीकम् // 67 // अरक्तभावं परमङ्गजस्या-नुमाय तस्मिन् धृतिमाप चित्ते / मुखस्य नेत्रस्य तथा विकारैः, पुनर्विकल्पांश्च बहूंश्चकार // 68 // बालस्ततः स्पर्शनबद्धरागो, हृदा सदाऽऽस्ते चकितो मनीषी / सुखं न विश्रम्भविनाकृतं स्यादि-दित्यङ्गरक्षं स जगाद बोधम् // 69 // त्वयाऽस्य कार्याऽनघमूलशुद्धि-र्यथा भवेन्मे वितथोऽवभासः / तेनाथ मुक्तः प्रणिधिः प्रभावो, भ्रान्त्वा स देशानवदत् समेतः॥ 70 // बाह्येषु देशेषु मया प्रवृत्ति-प्तिा गतेनेति गतोऽन्तरङ्गे / देशे महापातकसम तत्र, दृष्टं पुरं राजसचित्तनाम . // 71 // . 2