________________ कार्यो विषादो न तदत्र राजन्, ग्राह्या किलैका भवितव्यतैव / अर्थे ह्यशक्ये खलु यः प्रयासं, करोत्यसौ यास्यति हास्यभावम् // 48 // छनोऽपि पुण्याभ्युदयोऽस्य शश्वद्, वैश्वानरानर्थमपाकरोति / मणिर्यथा मुष्टिधृतस्तदेत-दवेहि खेदस्य च भेषजं ते // 49 // वाचेति नैमित्तिकपुङ्गवस्य, पूर्वं विषण्णो मुदितश्च पश्चात् / निर्वापितो वारिमुचा पिता मे, दवानलप्लुष्ट इवादिरासीत् // 50 // ज्ञात्वाऽथ मां भूपतिरप्यशक्य-प्रतिक्रियं दीप्तदुरन्तमोहात् / परीक्षितव्यो भवता कुमार इति प्रतीतौ विदुरं युयोज // 51 // दिने द्वितीयेऽथ स मामुपेतो, किं नागतो ह्यस्त्वमितीरितश्च / परीक्षितुं मां स्वविलम्बहेतुं, जगौ श्रुतं दुर्जनसंगदोषम् // 52 // उक्तं मया वर्णय तं ममापि, श्रवःसुधापारणमार्यवर्य / इतीरितः स्पर्शनदुर्जनस्य, दोषप्रबन्धं विदुरो बभाषे // 53 // क्षितिप्रतिष्ठे नगरेऽत्र कर्म-विलासराजोऽस्ति महाप्रतापः / उभे महिष्यौ पुनरस्य मुख्ये, एका शुभश्रीरशुभालिरन्या // 54 // तदङ्गजौ द्वौ च मनीषिबालौ, जातौ कुमारौ प्रविलेसतुस्तौ / दृष्टोऽन्यदा देहवनेऽथ ताभ्यां, कश्चित्पुमान् पाशकबद्धदेहः // 55 // छित्त्वाऽथ बालेन तदीयंपाशं, पृष्टः, स वार्तामसुखस्य तस्य / कृच्छ्राज्जगौ मे भवजन्तुरासी-दाद्यः सुहृत् स्पर्शनसंज्ञकस्य // 56 // अभून्मपि स्निग्धतरः सदाऽसौ, चकोरकश्चन्द्र इवानुकूलः / प्रतारयामास सदागमस्तं, भाग्ये कदाचिन्मम मान्द्यभाजि // 57 // ततः प्रभृत्येष न मन्यते मां, सदागमस्यैव करोति सङ्गम् / बिभर्ति शुद्धोञ्छपरीषहौघ-जयादिना मत्प्रतिकूलवृत्तिम् // 58 // कृतव्यलीकेऽपि न तत्र मेऽभूद, विपर्ययः स्नेहविजृम्भितस्य / मनागसावप्यनुयाति मां च, सदागमासन्निहितः कदाचित् // 59 //