________________ विवेकभानोरुदयाविरामात्, कदाऽपि तस्मिन् नं तम:प्रचारः / अक्षीणसद्बोधनिधावशोके, न तत्र दारिद्यकथाऽपि लोके // 36 // भूमीपतिस्तत्र शुभाशयाख्यो, बिभर्ति राज्यं जितराजराजिः / सतां हिताप्तावहितव्यये च, कृतोद्यमो दुष्टविनिग्रहे च // 37 // अलङ्करोत्येष कलङ्कमुक्तः, क्रीडावशेनापि हि यं प्रदेशम्। . ततः प्रणश्यन्त्यरयोऽन्तरङ्गा, मृगारिसंसर्गिवनादिवेभाः // 38 // धृतिस्मृतिहीकरुणाशमांद्यैः, कोशोऽस्य पूर्णो गुणरत्नवृन्दैः। . विशालशीलाङ्गरथैरजस्रं, प्रवर्धतेऽस्याप्रतिपन्थिलक्ष्मीः // 39 // सुरासुरस्त्रैणमहाविलासा-प्रकम्प्यचित्तेऽपि हि साधुलोके / आसक्तिदात्री स्थिरताऽभिधाऽस्य, सौन्दर्यलक्ष्मीनिधिरस्ति देवी // 40 // भाति प्रतीकेऽपि निरूपितेऽस्या, भस्मैव रूपं सुरसुन्दरीणाम्। प्रतिप्रतीकं तु निरूपितेयं, वैद्यान्तरं शून्यमिवातनोति // 41 // पुत्री तयोरस्ति निधिर्गुणाना-मुत्पत्तिभूमिर्बहुविस्मयानाम् / सुधौघवनिर्मिततापशान्तिः, क्षान्तिर्गतभ्रान्तिरुदारकान्तिः // 42 // निरीक्षणस्यापि हि मूल्यमस्या-श्चिन्तामणि र्हति भूरितेजाः / आलिङ्गनं यस्तु विधास्यतेऽस्याः, स शकचक्रादपि पीनपुण्यः // 43 // स्नेहाञ्चिता ग्लहरी यदस्या-श्चरीकरीति प्रशमस्थितानाम् / शैत्यं सुधाचन्दनचन्द्रमुख्यैर्न जायते तत्किल तापभाजाम् // 44 // बिभर्ति चेयं नृपते ! स्वभावाद्, वैश्वानरेण प्रतिपक्षभावम् / इमां कुमारः परिणीय कन्या-मनोदितो हास्यति पापमित्रम् // 45 // उक्त्वेति संमुद्रितवाचि तत्र, दृष्टे मुखे बुद्धिधनस्य राज्ञा / बहिर्विवाहव्यवसायमस्य, प्रोद्धर्तुमाह स्म निमित्तवेदी . // 46 // अलं तवानेन नृप ! श्रमेण, शक्तो विधौ न ह्ययमन्तरङ्गे। कन्यां स्वयं कर्मविलासनुन्नः, शुभाशयो दास्यति ते सुताय // 47 //