________________ अत्रान्तरे कश्चिदवोचतेष्टं, स्थानं त्वयाऽसौ गमितो ह्यनेन / वैश्वानरेणास्य विचारितोऽर्थो, भाव्येष गत्वा नरके ततायुः // 24 // गृहीतमेतन्मयकाऽस्य हस्ता-दङ्गीकृता तस्य च चारुशिक्षा / भक्ष्या त्वयैकैकगुटी किलास्मात्, संज्ञाप्यमानेऽवसरे मयेति।। 25 // अथो नियुक्तो विदुरो मदीयं, न्यवेदयद् दुर्ललितं नृपाय / सर्वं कलाचार्यकुलीनबाल-कदर्थनाद्यं स ततोऽतिदूनः // 26 // पप्रच्छ चाकार्य कलागुरुं मे, कलाः कुमारः कीयतीरभाणि / स प्राह सर्वोऽपि कलाकलापो, वश्योऽस्य जातो न किमप्यथोनम् 27 // अपि प्रकृत्या मलमस्य रूपं, न भाति वैश्वानरसंगतस्तु / इन्दोः कलङ्कादिव कर्दमाभा-न्महोत्पलस्येव च कण्टकौघात्॥ 28 // द्रुमा इवास्याप्रशमप्रवाहै-रुत्खातमूलाः क्षयिणो गुणौघाः / तत्रैष यत्नः फलवानितीदं, श्रुत्वा परं.तापमवाप राजा // 29 // आह्वस्त वैश्वानरपापमित्र-त्यागाय मामेष च वेदकेन / स प्राह राजन्नपि हापितोऽस्य, गतिः स वैश्वानर एव नूनम् // 30 // अयं हि वैश्वानरपापमित्र-सङ्गेन वैश्वानर एव जातः / बलादतो मोचयितुं न शक्यो, मृग्यः परं शान्तिविधावुपायः // 31 // श्रुत्वा नृपो वेदकवाचमेनी, गुरोर्मतां हृद्गहने निमग्नः / जगावथोच्चैविदुरोऽस्त्युपाय-ज्ञाताऽत्र जैनो नृपसिद्धपुत्रः // 32 // हृष्टस्तमाकार्य नृपोऽथ हेतुं, पप्रच्छ पुत्रस्य कुसङ्गमुक्तेः। बुद्ध्या स विज्ञाय जगौ य एको, हेतुस्तमत्रावहितो ब्रवीमि // 33 // विनिर्गतोपद्रवराशिचेतः-सौन्दर्यमत्रास्ति पुरं प्रसिद्धम् / लोकं वसन्तं किल भाविभद्रं, न तत्र मुष्णन्ति कषायचौराः // 34 // अनारतं विस्तृतसौरभं तत्, कल्याणवल्लीकुसुमैर्गुणौघैः / अलङ्कृते शीतलशीलगेहै-र्न तत्र तापो लभतेऽवकाशम् // 35 // SG