________________ निरीक्षिते तत्र बभूव पूर्वाभ्यासेन मे स्नेहविलासि चेतः / अपेक्षते स्वीयबलप्रकर्षान्न संस्तवस्नेहविधौ विशेषम् // 12 // वशंवदं स्वस्य स मामवेक्ष्य, जहाति पार्श्व न कदापि दुष्टः / स्ववैरिसंसर्गमवेक्ष्य साक्षात्, पुण्योदयो मित्रमतीव रुष्टः // 13 // दध्यौ च नासावुपदेशयोग्यो, हिताभिधानादहिते विमूढः / .. करालमद्यापि न कालकण्ठो, व्यालावलीनां वलयं जहाति।। 14 // न चाश्रितोऽसौ मम हातुमर्हो, विनैव वेलां गुणवर्जितोऽपि / अक्षुब्धगम्भीरमहाशयस्य, तृणादिसङ्घात इवाम्बुराशेः // 15 // इदं विचिन्त्य स्तिमितस्वभावो, रुष्टोऽपि तस्थौ स ममान्तरेव / ततश्च वैश्वानरतश्च भास्वन्मणिः फणीन्द्रो विषवानभूवम् // 16 // अवारितस्तेन तथैव वैश्वा-नरेण दाहप्रकृतिः कृतोऽहम् / अक्षालितः शैल इवाम्बुदेन, जातो यथा दाहकरः श्रितोऽपि॥ 17 // प्रक्रीडतो भीतिभृतोऽथ मत्तो, बालाः कुलीना अपि रोषपूर्णात् / भजन्ति मामेष महाप्रभावः, पुण्योदयस्यापि परस्य बुद्धः // 18 // वितीर्णतेजोमतिधैर्यवीर्य-वैश्वानरप्रेमपरोऽथ पित्रा / दत्तोऽहमाचार्यवरस्य भाग्याद्, विनोद्यम शिक्षितवान् कलौघम् // 19 // सहेतुकं वाप्यहेतुकं वा, समस्तबालैः कलहायमानः / वैश्वानरालिङ्गितमूर्तिरुच्चैः खेदाय तेषां च गुरोश्च जातः // 20 // प्रतिब्रुवाणो गुरुरप्यलम्भि, मया तिरस्कारपदं परे के / महीभृतः पुत्र इति प्रतीते, तथापि मय्येष जहौ न रागम् // 21 // वैश्वानरस्यैव गुणोऽखिलोऽय-मितीह रागो विधृतो मयोच्चैः / असावपि प्राणसमाय मह्यं, रसायनं क्रूरमनो ददौ द्राक् // 22 // जगौ च मच्छक्तिभवं किलैतद्, बलस्य वृद्ध्यै विततायुषश्च / गृहाण तत् त्वं परिभुक्ष्व काले, फलेग्रहिः स्नेहतरुर्ममास्तु // 23 //