________________ सा कर्मपरिणामेनार्चिता सा सृष्टिनाशकृत् / सा जागति प्रसुप्तेषु, तमस्यपि विजृम्भते // 187 // सर्वोपायविदं मत्वा, तामथो पृच्छत स्म तौ / साऽऽह प्रस्थापनायोग्यो, मद्भार्ताऽन्ये च तादृशाः // 188 // तावूचतुः प्रमाणं त्वं, कार्येऽस्मिन् व्याप्रियस्व तत् / अहमन्ये च मत्तुल्यास्तया प्रस्थापितास्ततः // 189 // सह ताभ्यां तया नीता, एकाक्षनिलयेऽथ ते / वर्तन्ते नगरे तत्र, महान्तः पञ्च पाटकाः // 190 // मामेकं पाटकं तत्र, तीव्रमोहः प्रदर्शयन् / आह संसारिजीव ! त्वं, तिष्ठास्मिन्नेव पाटके // 191 // यतोऽसंव्यवहारेण, तुल्यो बहुतरं ह्यसौ / . गोलकैश्च निगोदैश्च, जनैस्तावद्भिरेव च // 192 // भेदो लोकव्यवहृतेरन्यत्र च गमागमात् / . किञ्चानादिवनस्पतिवनस्पत्यभिधाकृतः . // 193 // इत्युक्त्वा स्थापितस्तस्मिन्नेकापवरके ह्यहम् / अन्ये तु केऽपि मन्नीत्या, स्थापिताः केऽपि चान्यथा // 194 // अथानन्तं स्थितः कालं, तत्राहं मत्तमूर्छितः / ततः प्रत्येकचारित्वं, भवितव्यतया कृतम् || 195 // तादृशः स्थापितोऽसंख्यं, कालमत्रैव पाटके / ददौ सा गुटिकां तत्र, नानाकारप्रकाशिकाम् // 196 // सा कर्मपरिणामेन, जन्मवासं प्रतीष्टकृत् / दत्तैकभववेद्यास्याः, प्रागेव श्रान्तिशान्तये // 197 // पूर्वस्यां परिजीर्णायां, दत्तवत्यपरापराम् / तामसंव्यवहारे सा, सूक्ष्ममेवाकरोद् वपुः // 198 // 3 सन्