________________ // 175 // // 176 // // 177 // // 178 // // 179 // // 180 // तावदानयनायेति, प्रहितोऽहं तया जवात् / अहं च देवभृत्योऽपि, तदाजैकवशंवदः . स्वीकृतं तद्वचस्ताभ्यां, पूज्या भगवती हि सा। तस्यासंव्यवहारस्थलोकमानं च दर्शितम् असंख्यगोलकगृहेष्वसंख्यास्तत्र दर्शिताः / निगोदाख्यापवरकास्तेष्वनन्ता जनाः पृथक् . आहतुर्विस्मितं तं च, दत्त्वा तौ करतालिकाम् / कां करिष्यति हानि भोः, स्थिते ह्येवं सदागमः एतावताऽपि कालेन, ये सदागममोचिताः / एकापवरकस्यास्य, भागेऽनन्ततमे हि ते लोकनिर्लेपचिन्तेयं, देवानां का तदुच्चकैः / दूतोऽवादीदिदं वक्ष्ये, त्वरा कार्ये विधीयताम् समजीवितमृत्यूनां, प्रवाहादादिवर्जितात् / समकाहारनि रोच्छ्वासनिःश्वासरागिणाम् ततो निर्यास्यतां संख्यापूरणायाक्षमाविमौ / / चिन्ताव्याकुलितौ जातो, परस्परमुखेक्षिणौ इतश्चास्ति भटः साक्षाद् भार्या मे भवितव्यता / मन्त्रयन्तीति कर्तव्यं, ममान्येषां च सद्मिनाम् स्वेष्टमर्थं करोत्येषा, क्वापि नान्यमपेक्षते / तां परेऽप्यनुवर्तन्ते, हेतवो यदुदाहृतम् बुद्धिरुत्पद्यते ताग, व्यवसायश्च तादृशः / सहायास्तादृशा ज्ञेया, यादृशी भवितव्यता अस्तीयं भवतो भद्रेत्युक्ते शकोऽपि हृष्यति / न भद्रेयमिति प्रोक्ते, कम्पते भयविह्वलः // 181 // // 182 // // 183 // // 184 // // 185 // // 186 // 2