________________ अत्रान्तरे श्रुतश्चकिबलकोलाहलो महान् / जाता चोत्कर्णिता पर्षद्, विस्मितं जनमानसम् // 127 // ततः सुललिता प्राह, महाभद्रां किमित्यदः / सा प्राह नास्मि जानामि, जानाति भगवान् परम् // 128 / / अथ प्रभुः सुललितापुण्डरीकावबुद्धये / इमं रूपकगूढार्थमाचचक्षे विचक्षण: // 129 // महाभद्रे ! न जानीषे, ख्यातेयं नृगतिः पुरी / .. महाविदेहरूपोऽयं, हट्टमार्गश्च विस्तृतः , // 130 // चौरः संसारिजीवोऽत्र, सलोनो दाण्डपाशिकैः / राज्ञे क्रूराशयैः कर्मपरिणामाय दर्शितः // 131 // तेन वध्यतयाऽऽज्ञप्तः, पृष्ट्वा भार्यां च बान्धवान् / महाकोलाहलैः सोऽयं, वेष्टितो राजपूरुषैः / // 132 // बहिः पुर्या विनिःसार्य, हट्टमार्गस्य मध्यतः। नीत्वा वध्यस्थले पापिपञ्जरे मारयिष्यते // 133 // श्रूयते कर्णनिर्घाती, सोऽयं कोलाहलो महान् / प्राप्ता सुललिताऽऽश्चर्यं, तच्छ्रुत्वाऽऽह प्रवतिनीम् // 134 // नृगतिर्नगरी नेयं, ननु शङ्खपुरं ह्यदः / वनं चित्तरमं चेदं, हट्टमार्गो न विस्तृतः // 135 // न कर्मपरिणामोऽत्र, राजा श्रीगर्भ एव तु / अबद्धं भगवान् बुद्धे, किमित्येवं प्रभाषते // 136 // भगवानाह जानीषे, परमार्थं न मे गिराम् / भद्रेऽगृहीतसंकेता, ततस्त्वमसि निश्चिता // 137 // सा दध्यौ ही ममाप्यन्या, कृता भगवताऽभिधा। स्थितेति विस्मिता तत्त्वं, महाभद्रा त्वलक्षयत् . . // 138 // 58