________________ = = = अतः सुललिते ! पात्रं, पुण्डरीकोऽयमुत्तमम् / पुत्रः प्रकाशितो देवीदेवयोरनुकूलयोः // 91 // गुणैरनन्यसामान्यैदृष्टहेत्वतिवर्तिनी / सृष्टिनिंगद्यते पुण्यादृष्टस्य हि महात्मभिः // 92 // जगौ सुललिता पूज्ये, संशयः प्रथमो हतः / त्वया समर्थयत्या मे, गुरूक्तामर्थपद्धतिम् // 93 // एष वेत्ति कथं वार्ता, भविष्यत्कालभाविनीम् / इत्येनमर्हसि च्छेत्तुं, द्वितीयमपि संशयम् // 94 // अथ प्राह महाभद्रा, भद्रे ! यो वीक्षितस्त्वया / सोऽयं सदागमो नाम, पुरुषो धर्मदेशकः // 95 // करामलकवद् वेत्ति, पदार्थान् जगतामयम् / परेषामर्थकथने, व्यसनं चास्य जृम्भते // 96 // अन्येऽप्यभिनिबोधाद्याश्चत्वारः पुरुषा इह / तादृशाः सन्ति न परं, समर्थाः परबोधने // 97 // ततः सुललिता मुग्धा, प्राह किं राजदारकः / असौ सदागमस्येष्टः, प्रत्युवाच प्रवतिनी // 98 // भद्रे ! परोपकारैकप्रवणः प्रकृतेरयम् / इन्दुः कुवलयोल्लासे, किं कारणमपेक्षते // 99 // पापिष्ठास्त्वस्य वचने, न वर्तन्ते द्विषन्त्यमुम् / हसन्ति केऽपि दौःशील्यादुपेक्षन्ते च केचन // 100 // तदुक्ताकरणाशक्ति, भाषन्ते केचिदात्मनः / प्रतारकोऽयमित्येनं, शङ्कन्ते केऽपि दुधियः // 101 // आदावेव न बुध्यन्ते, तद्वचः केऽपि बालिशाः / . श्रद्दधत्येव नो केचित्, केऽपि तत्र श्लथादराः // 102 // = = ____ = . 55