________________ // 32 // // 34 // // 35 // कर्मोदयान्न बोधोऽस्यां, जायते च स्फुटः परम् / प्रकाश इव चन्द्रस्य, मेघाच्छादनतो दिवि महाभद्रा शङ्खपुरे, समागत्यान्यदा स्थिता / नन्दस्य श्रेष्ठिनो घंघशालायां शिलशालिनी श्रीगर्भस्तत्र राजाऽस्ति, नलिन्याख्या च तत्प्रिया / उपचारानपत्यार्थं, साऽनपत्याऽकरोद् बहून् उत्पन्नः पुण्यवान् जीवस्तस्याः कुक्षावथैक्षत / निशि प्रसुप्ता सा स्वप्ने, यथा कोऽपि सुविग्रहः प्रविश्य मे मुखेनाङ्गे, निर्गत्य च गतः क्षणात् / नरेण केनचित् साधू, भत्रे स कथितस्तया तेनोक्तं ते सुतो भावी, केवलं प्रव्रजिष्यति / शीघ्रं कञ्चिद् गुरुं प्राप्य, तच्छ्रुत्वा सा दधौ मुदम् जातस्तृतीयमासेऽस्याः, शुभकर्ममनोरथः / संपूरितोऽसौ श्रीगर्भराजेनातुलसंपदा. असूत सा सुतं पूर्णे, काले रुचिरलक्षणम् / / / संतुष्टोऽचीकरद्राजा, तस्य जन्ममहोत्सवम् गुरुः समन्तभद्राख्यो, जातनिर्मलकेवलः / इतः समागतोऽत्रैव, स्थितश्चित्तरमे वने इतः सुललिताऽज्ञाता, वन्दितुं तं प्रवर्तिनी / गता कथञ्चित् तत्राभूद्, वार्ता पुत्रस्य भूभुजः उक्तं भगवताऽभ्यस्तसत्कर्मा बहुशो ह्ययम् / न स्थास्यति गृहे दीक्षां, लात्वा भावी श्रुतार्थवित् तदाकर्ण्य महाभद्रा, हृष्टा स्वोपाश्रये गता। इतश्च राजपुत्रस्य, तस्य नाम प्रतिष्ठितम् // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // // 42 // 50