________________ मदमदनमोहमत्सररोषविषादैरधर्षितः सततम् / / तुल्यारण्यकुलाकुलकाञ्चनतृणशत्रुमित्रगणः // 268 // दृष्टिं स्थिरां च कान्तां, प्रभां परां च प्रसारयन् धर्मे / धर्मध्यानाभिरतः, शुक्लध्यानैकतानमनाः // 269 // श्लिष्टं विधाय चित्तं, सुलीनमपि. संयमे वितन्वंस्तत् / आत्मारामः शून्यं, परभावविजृम्भितं पश्यन् // 270 // उल्लसितसहजवीर्यः, पंरिशुद्धसमाधिदृष्टपरमार्थः / जीवन्मुक्त: शर्माऽनुबभूव भवातिगं किञ्चित् (सप्तभिः कुलकम्) 271 // इत्थं द्रमकोऽपि महाराज इवाकारि धर्मबोधकरैः / / गुरुभिस्तन्माहात्म्यं, वर्णयितुं नालमिन्द्रोऽपि // 272 // अनुभवसिद्धं चेदं, साक्षाद् द्रमकोपमोऽप्यहं सदयैः / / गुरुभिः प्रवेशितो यज्जिनसमये शर्म किमपि लभे // 273 // विकलानुष्ठानादपि, शुद्धानुष्ठानतीव्रभावयुजः / मार्गप्रवेशनफलादलाघवं भावयामि भृशम् // 274 // विमलालोकात् तीर्थोदकाच्च यद्रोगतानवं भवति / सोऽयं गुरुप्रसादः, परमान्नलवस्य लाभश्च . // 275 // एवं येषां गुरवो, भक्त्येकवशा भृशं प्रसीदन्ति / भव्या भवन्ति पुरुषास्ते सर्वश्रेयसां पात्रम् // 276 // किं तच्चित्रं गुरुरिह महाशास्त्रसन्दर्भवेदी, न स्वायासं गणयति रतो नित्यमन्यार्थसिद्धौ / अम्भोवाहो व्रजति जलधौ कामति व्योम विद्युत्, . तापव्यापं वहति हृदये तत्र कः स्वार्थलोभः // 277 // जडमपि कृतिनं गुरुर्विधत्ते, कुटिलमपि प्रगुणीकरोति सद्यः / धवलयति धरातलं हिमांशुः, कुमुदवनस्य भिनत्ति महूं मुद्राम् // 278 // 48