________________ सुप्तोत्थितश्च तस्मिन्, पचेलिमं फलमपूर्वमालोक्य / आस्वाद्य गतः स्थाने, प्रस्तुतकार्यं पुनश्चके // 256 // भुञानस्यापि महाकल्याणकमथ समग्रविधियुक्तम् / प्रकुपित इव वेतालः पुनरुन्मादोऽतुदद् गात्रम् // 257 // जाता ज्वरजर्जरता, मूर्छकूपे च मानसं मग्नम् / दृष्ट्वेदृशं तमासीचिन्ताभाग् धर्मबोधकरः (युग्मम्) // 258 // पृष्टं रोगनिदानं, तेनोपेक्षागतं न तत्प्रोक्तम् / विषफलभुक्तिर्गुरुणा, ज्ञाता मतिनाडिकागत्या // 259 // उक्तं च वत्स ! गारवविषफलभुक्तेरसौ विकारभरः / चारित्रसदनभुजामप्ययमतिदुःखकृद् भणितः // 260 // एतत्प्रतिक्रियां तद्गुणवैतृण्याख्यपरमवैराग्यम् / सेवस्व येन न कदाऽप्येष विकारः समुद्भवति // 261 // आद्यं खलु वैराग्यं, विषयत्यागाय विषयवैतृष्ण्यम् / / ज्ञानादिविकारहरं, गुणवैतृष्ण्यं द्वितीयं तु . // 262 // शिक्षामेनां लब्ध्वा, तत्प्रतिकारं विधाय जातोऽसौ / अविकृतनिजगुणपात्रं, परमान्नरसादथ स्वस्थः / // 263 // एवं यो यो दोषो, यदा यदा बाधतेऽस्य सूक्ष्मोऽपि / तत्तत्प्रतिक्रियायां, प्रक्रमते धर्मबोधकरः . // 264 // अथ कृतसमस्तदोषप्रतिकारः परिणतोरुगुरुशिक्षः / वचनक्षमादिसिद्धेरधिगतधर्मक्षमादिरतिः // 265 // वचनक्रियाप्रकर्षाश्रयादसङ्गक्रियासु लब्धरसः / कर्ममलस्यापगमाच्छुक्लः शुक्लाभिजात्यश्च // 266 // खेदोद्वेगभ्रान्तिक्षेपोत्थानान्यमुद्रुजासङ्गैः / मुक्तश्च पृथचित्तैरष्टभिरष्टाङ्गयोगधरः // 267 // 45