________________ सूतेऽनम्बुधरोऽपि चन्द्रकिरणैरम्भांसि चन्द्रोपलस्तद्रूपं पिचुमन्दवृन्दमपि च स्याच्चान्दनैः सौरभैः। स्पर्शात् सिद्धरसस्य किं भवति नो लोहं च लोहोत्तमम्, प्राप्य श्रीगुरुपादपङ्कजकृपां मूर्योऽपि सूरिभवेत् // 279 // जिज्ञासुताङ्कुरवती सुरूचिप्रवाला, ज्ञानादिपुष्पकलिता समताफलाढ्या। हित्वा करीवनतुल्यमुपायमन्यं, सेव्या सदा गुरुकृपात्रिदशद्रुवल्लिः 280 // गुरुकृतगरिमप्रथापवित्रं, द्रमकचरित्रमिदं निशम्य सम्यक् / य इह वितनुते तदंहिसेवां, त्यजति न तं गुणरागिणी यशः श्रीः / / 281 // // 2 // // तृतीयः स्तबकः // अथ प्रस्तूयते कीतिकथा पीयूषवर्षिणी / अनुसुन्दरराजर्षेश्चन्द्रोज्ज्वलगुणश्रियः जायते परबोधाय, स्वसंसारविडम्बनाम् / श्रद्धावान् कथयन् यद्वच्चक्रवर्त्यनुसुन्दरः अस्ति स्वस्तिमती क्षेमपुरी सुरपुरीसमा / सुकच्छविजयस्थाने, प्राग्विदेहे मनोहरे तत्रारिनारीनेत्राम्बुजातोज्ज्वलयशोम्बुजः / अभूद् युगन्धरो राजा, प्रतापजितभास्करः तस्यासीन्नलिनी नाम महिषी नलिनेक्षणा / विजिता रूपपीयूषसरस्याऽप्सरसो यया चतुर्दशमहास्वप्नसूचितो जनितस्तया / पुण्योदययुतः पुत्रः, सुधास्निग्धेन्दुसोदरः // 4 // // 5 //