________________ शक्तोऽहं नैतस्यां, न विनाऽप्येनां समग्रसुखलाभः / तत् किं कुर्वे साम्प्रतमिति संदेहाकुलः सोऽभूत् // 232 // भूरिमहाकल्याणं, भुक्त्वाऽयमथान्यदा तपोनियमैः / भक्षितवानल्पतरं, प्रसङ्गतोऽर्थार्जनकदन्नम् // 233 // स ततः सदन्नतृप्तेः, सबुद्धः सन्निधेश्च तदपथ्यम् / अन्वभवत् क्वथितरसं, मलाविलं लज्जनीयं च // 234 // छित्त्वाऽथ रागतन्तून्, स्वजनादिभवं व्यलीकमनुचिन्त्य / प्रविहाय पूर्वपक्षं, पुनरभिलाषस्य दृढभावात् // 235 // लब्ध्वा राज्यं दासः, कः स्यादिति संयमे रतिं कुर्वे / यद्भाव्यं तद्भवतादिति सिद्धान्तं स जग्राह (युग्मम्) // 236 // अथ सद्बुद्धिः प्रोक्ता, तेनेदं क्षालयाधुना भद्रे / मम भाजनं कदनं, त्यजामि सर्वं हिताकाङ्क्षी - // 237 // सा प्राह प्रष्टव्यः, कार्येऽस्मिन् चारुधर्मबोधकरः / कार्यतरुन विकारं, विचारपरिरक्षितो याति // 238 // निजनिश्चयप्रदर्शनपूर्वं पृष्टोऽथ धर्मबोधकरः / योग्यत्वं गीतार्थैः सह पर्यालोच्य जानानः // 239 // अत्याजयत् कदन्नं, विमोचयंस्तं समस्तसङ्गेभ्यः / अक्षालयच्च भाजनमाजन्मालोचनासलिलैः // 240 // आलोचनाख्यसलिलक्षालनमाहात्म्यतश्च तत्पात्रम् / जातं तपनीयमयं, वाक्पारे दिव्यवस्तुगुण: // 241 // अन्यदसंयमजीवितमन्यच्च वदन्ति संयमायुष्कम् / इति गृहियतिवरभिक्षाभाजनभेद: समयसिद्धः // 242 // तच्च महाकल्याणकपूर्णं चक्रे महाव्रतारोपात् / जिनचैत्यसङ्घपूजामहोत्सवस्तद्दिने ववृधे // 243 // 43