________________ दास्यति च मद्दया यत् तद्भुक्त्वा त्वं विशेषतो नृपतिम् / आराध्य तत्प्रभावाद् भवितासि नृपोत्तमप्रकृतिः // 172 // प्रमुदितमनास्ततस्तद्वचनैरतिकोमलैः प्रणयगर्भः / ... प्रादुष्कृत्य स्वाशयमाह द्रमकोऽनु गुरुसूदम् // 173 // नालं पापस्त्यक्तुं, कदन्नमिति तत्समादिशान्यदतः / स प्राह नैतदर्थो, यत्नो मे तेन मा भैषीः // 174 // अत्याजयं पुराऽहं, तवैव हितकाम्यया कदन्नमिदम् / तुभ्यं न रोचते चेद् भुङक्ष्वान्नं सत्यपीह, तदा // 175 // . यच्च प्रागुपदिष्टं, तदत्र भवताऽवधारितं किञ्चित् / स प्राह नावधारितमतिमूछितमत्तसदृशेन // 176 // नालमनाद्यभ्यासाद् धनादिमूर्छा वदत्स्वपि भवत्सु / भक्षितदधिवृन्ताको, निद्रामिव हातुमहमासम् // 177 // उद्वेजिका तवाभूत्, प्रतिबोधनगीर्मम प्रसुप्तस्य / प्राप्तं तन्माधुर्यं भावयतश्चान्तराह्लादम् / // 178 // आहूतः पूर्वमहं, लास्यत्यन्नं ममायमिति भीतः / अञ्जितनेत्रस्तु बलान्नश्यामीत्याशयं धृतवान् // 179 // तीर्थाम्बु पायितः सन्, शैत्यं गमितो यदा पुनः पूज्यैः। परमोपकारकत्वं, युष्मासु तदा मयाऽवगतम् // 180 // परिहर कदन्नमिदमिति गदिते पर्याकुलः पुनर्जातः / स्वयमेष न लाति परं, त्याजयतीत्युत्तराशक्तः // 181 // .. सत्यस्मिन्मे भोज्य देहीत्युक्ते त्वया दयाद्वारा / दापितमिदमतिहिततां, भुक्त्वाऽहं ज्ञातवान् भवतः // 182 // वक्ति हि तत्त्वेनासौ, शक्तोऽस्मि न मोचने कदन्नस्य / इति चिन्ताकुलितस्य च, भवद्वचो मे हृदि न लग्नम् // 183 // 38