________________ ज्ञात्वा तन्निर्बन्ध, कृपापरो रसवतीपतिर्दध्यौ / सत्यप्यस्य कदन्ने, देयं देशोपरतिरन्नम् // 160 // पश्चाद् विज्ञातगुणः, स्वयमेव विहाय विषयभोगमसौ / लास्यति शुद्धं चरणं, न धैर्यकृद् विषयमाधुर्यम् // 161 / / अपसिद्धान्तो न ममाप्येवमुपाये प्रवर्तमानस्य / विनिरूप्य सर्वविरति, कथनीया देशविरतिर्यत् // 162 // प्राक् तत्कथने हि भवेत्, तत्प्रतिबद्धं दृढं मनः श्रोतुः / इत्थं चानुमतिः स्यात्, सूक्ष्मप्राणातिपातादौ // 163 / / प्रददौ परमान्नलवं, ध्यात्वेदं संज्ञिता दया तेन / सत्येव तत्कदन्ने, भुक्तं तेनात्मनः पात्रे // 164 // तद्देशविरतिरूपं, परिणममानं गदक्षयं चक्रे / गलिता क्षुधाऽञ्जनजलोद्भवमजनि सुखं त्वनन्तगुणम् // 165 // अथ स प्रसृमरभक्तिर्नष्टभ्रान्तिर्बभाण भगवन्तम् / अनुपकृतोपकृतो मे, 'नाथा यूयं विनाथस्य // 166 // सूदः प्राह गुरुरथो, नाथः सर्वस्य जिनमहाराजः / / अस्माभिस्तु तदाज्ञानुवर्तिभिर्भूयते सततम् // 167 // सामान्यतोऽपि येऽमुं, सेवन्ते ते क्रमेण शिवभाजः / ये तु विशिष्य भजन्तै, तेषामचिराद्भवति मुक्तिः // 168 / / ये पापिष्ठाः सत्त्वा, जानन्ति न तेऽस्य नाममात्रमपि / नूनमिह भाविभद्रान्, स्वकर्मविवरः प्रवेशयति // 169 / / योगावञ्चकशक्त्या, त्वमपि विभुं वस्तुतः प्रपन्नोऽसि / इच्छामो योजयितुं, विशेषभक्तावथास्य त्वाम् // 170 // सा च गदतानवात् स्यात्, क्षणे क्षणे भेषजत्रयीभोगात् / तत्स्थेवमत्र भवता, भुञ्जानेन त्रयमिदानीम् // 171 // 30