________________ ध्यात्वेति तेन भणितं, भद्र ! न जानासि किं तव शरीरे / एतत्कदनमूला, रोगाश्चित्ते विपर्यासाः // 148 // स्वयमेव हास्यसीदं, स्वादं ज्ञास्यसि यदा मदन्नस्य / न हि मालतीरसज्ञो, भ्रमति भ्रमरः करीरवने // 149 // आश्चर्यकृत्त्वया किं, दृष्टाञ्जनसलिलयोन मे शक्तिः। मुञ्चेदं विस्रब्धस्तत्कल्याणं गृहाणेदम् // 150 // क्लेशार्जितमिदमिति या, त्यागाबुद्धिर्न साऽपि तव युक्ता / यदिदमत एव हेयं, क्लेशाङ्गं क्लेशरूपं च // 151 // वैषयिकसुखाभासे, चारित्रसुखं स्वभावजं त्यक्त्वा / . . बध्नाति रतिं न कृती, सुकृती यदुवाच वाचकराट् // 152 // भोगसुखैः किमनित्यैर्भयबहुलैः काङ्कितैः परायत्तैः / / ... नित्यमभयमात्मस्थं, प्रशमसुखं तत्र यतितव्यम् // 153 // निर्वाहकत्वमुक्तं, प्रकृतिगतेयत्पुनः कदनस्य / कादाचित्कतया मत्परमान्नस्याऽतथात्वं च // 154 // तदपि न युक्तमपथ्यं, निर्वाहे न पटु यत्कदन्नं ते / / मम तु न कादाचित्कं, वीर्योल्लासेनं परमानम् (युग्मम्) // 155 // विगलितभवप्रपञ्चः, प्रशान्तवाही परीषहैरजितः / मुनिरुपचितस्ववीर्यो, निर्विघ्नं याति शिवसदनम् // 156 // तत्रानन्तं कालं, तिष्ठति भयखेदरोगनिर्मुक्तः / तत्प्रापकं मदन्नं, तस्मानिर्वाहकमवेहि // 157 // इदमेव तुष्टिपुष्टिकृदतिवीर्यविवर्धकं गदच्छेदि / तदिदं गृहाण भूया भुक्त्वेदं नृपतिरिव सुखितः // 158 // स प्राह बलिवर्दो, गलिरिव पादप्रसारिकां कृत्वा / .. नाऽलं त्यागेऽस्याहं, सत्यस्मिन् दीयतां देयम् / // 159 // 35