________________ अथ तं कदन्नमूर्छितमभिवीक्ष्य मुहुर्मुहुर्दशं ददतम् / निजपात्रे तद्भावं, ज्ञात्वाऽऽह स धर्मबोधकरः // 136 // कन्याप्रदीयमानं, “नादत्से किं नु मूर्ख ! परमानम् / किञ्च कदन्ने गृद्धः, स्वयं स्ववैरित्वमाचरसि // 137 // अस्माद् भवनाद् बाह्याः, सत्त्वास्तिष्ठन्ति दुःखिता बहवः / न च ते प्रभुणा दृष्टा, इति नस्तेष्वादरो नास्ति // 138 / / त्वं पुनरेतद् दृष्ट्वा, तुष्टस्तेनासि वल्लभो नृपतेः / तत्त्वयि दयालवः स्मो, भृत्या भर्तुर्मनोऽभिज्ञाः // 139 / / प्रभुरयममूढलक्षो, नापात्रे दृग्विलासमाधत्ते / व्यभिचारितश्च मार्गावतारहेतुस्त्वयाऽस्माकम् // 140 // आदत्स्व ज्ञानफलं, तव्रतभिक्षां त्यजाऽनघ ! कदन्नम् / पश्यसि किं न विमोहानिहापि शमिनः सुधातृप्तान् // 141 // इत्यभिहितः स बाढं, धृतविश्वासोऽपि रसवतीनाथे / भजते तस्य कदन्नत्याजनवचनेन विह्वलताम् // 142 // दैन्यमवलम्ब्य स ततः, प्राह वचो भगवतां प्रमाणमिदम् / क्लेशेनार्जितमेतत्, त्यक्तुं तु न भोजनं शक्यम् // 143 // निर्वाहकमिदमशनं, मम भवतां त्वेकदिवसमुपयुक्तम् / तत् सत्यस्मिन् देयं, यदि दित्सा भवति पूज्यानाम् // 144 // अथ सूदो धर्मगुरुर्दध्यौ ही मोहजृम्भितं दुष्टम् / / 1 सपनाया, परमान मन्यत तृणवत् // 145 // तदपि तपस्विनमेनं, मोहापोहाय शिक्षयामि पुनः / पुनरेति तमःपटलं, रविरेव पुनर्विनाशयति // 146 // जीवस्य देशना खलु, योग्यत्वमनेकशः कृता कुर्यात् / मृत्कुम्भोऽपि शिलायां, पदमाधत्ते न किमुपायात् // 147 // 34