________________ न त्याजयामि साम्प्रतमिति वचनेन त्वनाकुलो जातः / तद् ब्रूत साम्प्रतं यन्ममेदृशस्यापि कर्तव्यम् // 184 / / इत्याकर्ण्य दयाढ्यः, प्राह स्वाञ्जनजलानमाहात्म्यम् / राज्ञा प्रोक्तं योग्यायोग्यविभागं च तद्दाने // 185 // योग्येभ्य एव दत्तं, गुणाय खलु भेषजत्रयं भवति / दोषायायोग्यस्य तु, दत्तं तद्दुग्धमिव फणिनः // 186 // इह भवनेऽयोग्याश्च, स्वकर्मविवरप्रवेशिता न स्युः / दृष्ट्या पश्यति राजा, नायोग्यान् कथमपि प्राप्तान् // 187 // अक्लेशेन च येषां, मनसीदं भेषजत्रयं रमते / तेऽत्र सुसाध्या यत्नक्रमबोध्याः कृच्छ्रसाध्यास्तु // 188 // येभ्यो न रोचते तु, क्रमेण विनियोज्यमानमप्येतत् / द्वेष्टारो दातृणां, नराधमास्ते किलासाध्याः // 189 // नृपदृष्टो लक्षणतस्तत्र त्वं कृच्छ्रसाध्य एवासि / बलिनस्तवाङ्गरोगा, गदक्षयो नातियत्नमृते // 190 // तद्वत्स ! प्रयत: सन्, निराकुलोऽत्रैव नृपगृहे तिष्ठ / लात्वा कन्याहस्ताद् भुञ्जानो भेषजत्रितयम् // 191 // तेन तथेत्युक्तेऽसौ, चक्रे परिचारिकां दयां तस्य / भुङ्क्ते तद्दत्तमयं, कदन्नयगान्न चाद्रियते // 192 // उपदंशतां व्रजति तन्मोहेन कुभोजनं तुं बहु भुङ्क्ते। विनियुङ्क्ते च कदाचित्, तद्वचसैवाञ्जनं च जलम् // 193 // प्रतिदिनमेवाद्रियते, धनसाधनमन्तराऽन्तरा तु गृही। भजते गुरूपरोधाद् विरतिं ज्ञानं च सम्यक्त्वम् // 194 / / भूरिमहाकल्याणं, संभ्रमतस्तदथ गुरुदयादत्तम् / / निदधाति कपरऽसौ, भुक्त्वाऽल्पं हेलया शेषम् // 195 // 36.