________________ // 64 // // 65 // // 67 // // 68 // भगवदवलोकनेयं, प्रोक्ता मार्गप्रणालिका सद्भिः / द्रव्यश्रुताद् विनैनां, स्थूलज्ञानं न चान्ध्यहरम् तां तत्र राजदृष्टि, निषतन्ती तन्महानसनियुक्तः / / निरवर्णयदुपयोगादाचार्यो धर्मबोधकरः दध्यौ चायं चित्रं, किमिदं यदर्शनेन विश्वविभोः / भवति त्रिभुवनविभुता, बीभत्सोऽयं पुनर्द्रमकः दृष्टगुरुकर्मभारे, प्रोल्लसिताकाण्डसमुचिताचारे / पौर्वापर्यविरोधात्, सुगुरोश्चिन्तेयमुचितैव स तदाऽस्य निश्चिकाय च, हेतुद्वयमत्रभाविभद्रस्य / द्वा:स्थप्रवेशनमदो, दृष्टौ च मनःप्रमोद इति भवति प्रमुदितमन्तर्यस्यैतद् भवनमीक्षमाणस्य / अत्यन्तवल्लभोऽसौ, सम्राज इति प्रसिद्धमिदम् / जातो मनःप्रमोदश्चास्य यदेतद्दिदृक्षयाऽनुकलम् / रोगार्ते अपि नेत्रे, प्रोन्मीलपतीव जिज्ञासुः . प्रवचनलवेऽप्यधिगते, विकसितवदनो भवत्यदृश्योऽपि / धूलीधूसरिताङ्गं, रोमाञ्चयति क्रियालेशात् कर्मविवरप्रसादाज्जिनशासनपक्षपातभावाच्च / तदयं द्रमकोऽपि गमी, कल्याणपरंपरास्थानम् इति निश्चित्य स मार्गावतारणे भावतोऽभिमुखभावात् / तस्य समीपं गच्छति, दातुं भिक्षां तथाऽऽह्वयति लोकोऽयमनाद्यनन्तो, जीवस्तादृग्भवोऽस्य कर्मकृतः / तत् पुण्यपापभेदाद्, द्विविधं सुखदुःखयोर्हेतुः प्रयतेत तत्सुखार्थी, धर्मेऽधर्मात्पुनर्निवर्तेत / इदमुपदेशरहस्यं, भिक्षाह्वानोपमं ज्ञेयम् // 70 // // 71 // // 72 // // 74 // // 75 //