________________ जगदसदिदमित्याद्या, वचनमिदं शृण्वतोऽस्य रोरस्य / / क्षीयन्ते कुविकल्पा, अनादिदुर्वासनाजनिताः // 76 // नष्टा विडम्बनपरास्तदमी दुर्दान्तडिम्भसङ्घाताः / जातोऽथाभिमुखोऽसौ, शुश्रूषुस्तद्वचः किञ्चित् // 77 // परहितकरणैकरतः, प्राह ततः प्रभुमहानसनियुक्तः / आचार्यः शिष्टा मे, प्रमाणमिति मन्यमानं तम् // 78 // पाति पितेव पतन्तं, बन्धुरिवानयति मार्गमतिसरलम् / मित्रमिवादिशति हितं, धर्मो मातेव पुष्णाति . // 79 // मणिकनकरजतकूयः प्राप्यन्ते चाङ्गना जिताप्सरसः / सुरसदनशिवसुखान्यपि, जिनधर्मानुग्रहादेव // 80 // गर्जद्गजराजिलसद्वाजिविराजितंमुदारवारस्त्रि / राज्यं शर्मप्राज्यं, धर्मादेवाप्यते पुरुषैः // 81 // अस्थापयदिति वाण्या, तमसौ भिक्षाचरोचिते देशे / चित्ताक्षेपाबाने, प्रथमाने मानसविलासैः // 82 // विस्फारिताक्षियुगलः, समुन्नमत्कन्धरस्ततो द्रमकः / त्यक्तविकथाकषायो, भावितहृदयः स्मितास्योऽभूत् // 83 // भिक्षां महानसपतिः, परिजनमादिष्टवानथो दातुम् / दानादिधर्मभेदं, समुचितशक्त्या कुरुष्वेति / अथ च महाकल्याणं, परमान्नं पूर्णधर्ममतिसरसम् / दातुं तस्मै पुष्टिकृदुपस्थिता तद्दयादुहिता // 85 // अत्रावसरे द्रमकस्तुच्छाभिप्रायकृतविपर्यासः / . दध्यावेष सुवेषः, स्वयमाहूय क्व नेष्यति माम् // 86 // नूनं विजने नीत्वा, भिक्षाया भाजनं भृतप्रायम् / .. उद्दालयिष्यति ममेत्यासीत् किङ्कार्यतामूढः // 87 // 30 // 84 //