________________ भ्रान्तोऽसौ नगरेऽस्मिन्ननन्तशोऽदृष्टमूलपर्यन्ते / न च निविण्णः कथमपि, कदन्नविषयैकलुब्धमतिः // 40 // तत्र च नगरे राजा, सुस्थितनामा त्रिलोकविद् भगवान् / सत्त्वानामुपकारी, कुरुते राज्यं सुखप्राज्यम् // 41 // सदनमांस्य प्राप्तः, शासनमयमनभिदृष्टपूर्वश्रि। प्रावेशयत् कृपालुः, स्वकर्मविवरच तं द्वाःस्थः // 42 // रागादयोऽपि सन्ति, द्वा:स्थाः प्रतिबन्धकास्तु ते तत्र / शासनबाह्यो लिङ्गी, प्रवेशितस्तैर्यतोऽभिहितः // 43 // यस्तु स्वकर्मविवरो, द्वा:स्थस्तत्र क्षयोपशमनामा / उद्घाट्य ग्रन्थिमसौ, प्रवेशकस्तत्त्वतो भवति // 44 // तेन प्रवेशितोऽसौ, ददर्श शुचिमन्दिरं महाराजः (महाराज्ञः) / ज्ञानादिऋद्धिकलितं, चरित्रचन्द्रोदयोल्लसितम् // 45 // जनितानन्दं लोकैः, सूनृतताम्बूलभृतमुखैः शमिनाम् / शुचिदर्शनकपुरं, शीलाङ्गसहस्रततकुसुमम् . // 46 // गुरुकरुणाऽगुरुधूपं, प्रसृमरतरभावनामृगमदाढ्यम् / ध्यानजलयन्त्रलहरीशमचन्दनलेपहततापम् // 47 // दृष्टाश्च तेन लोकास्तत्र स्थगितान्धकूपमोहभराः / अपहस्तितमृत्युभया, निजितमिथ्यात्ववेतालाः // 48 // दैन्यौत्सुक्यजुगुप्साऽरतिचित्तोद्वेगतुच्छतारहिताः / गाम्भीर्यौदार्यधृतिस्मृतिसहिताः सततानन्दाः // 49 // गायन्तः स्वाध्यायैर्वैयावृत्यविधिना च नृत्यन्तः / वल्गन्तो जिनजन्माभिषेकयात्रादिहर्षभरात् // 50 // उत्कृष्टसिंहनादं, प्रदर्शयन्तः प्रवादिनां विजयात् / आनन्दमईलगणं, प्रवादयन्तश्च धर्मदिने (चतुभिः कलापकम्) // 51 / / 20.