________________ महतो लब्ध्वा विभवं, मलिनः प्रायेण माति नो हृदये / स्थगयति जगज्जलधरो, जलराशेरात्तजलभारः // 28 // तदसौ कदन्नलेशप्राप्त्या दृप्तः शृणोति विज्ञप्तिम् / / नोग्रमदसन्निपातः, पश्यति न परं च मोहान्धः // 29 // औद्धत्यकीलकहतो, न ग्रीवां नामयत्युपनतानाम् / गारवमरुद्विकारान्न भाषते स्तब्धजिह्व इव . / // 30 // अनुगम्यमानपार्यो, महाजनैर्बद्धमुष्टिरस्तमतिः / न च पश्यति न च जल्पति, धनगर्वहतो मृतकतुल्यः // 31 // अयमीदृग्गतपुण्यो, रङ्को ज्ञानादिरत्नविकलत्वात् / शोच्यो भवति मुनीनामिन्द्रोपेन्द्रादिरपि लोकः लब्ध्वा कदन्नलेशं, शकादपि शङ्कते स भुञ्जानः / भयमेति निःस्पृहादपि, पात्रात् क्षुद्रत्वदोषेण // 33 // कार्यान्तरमपि कुर्वन, वपुषा तद्रक्षणोद्यतो मनसा / अवधीरयति स धर्म, न वेत्ति लोकद्वयविरुद्धम् // 34 // तस्य द्रमकस्य ततस्तेन कदन्नेन पूरितेऽप्युदरे / वृद्धिमुपैति बुभुक्षा, न तु तृप्तिर्भवति भस्मकिनः // 35 // ग्रीष्मे यथा दवानलतप्तस्य तृषादितस्य पथिकस्य / तृप्तिः स्वप्ने नाम्बुधिपानाद् विषयैस्तथैवास्य // 36 // विषयकदन्नमनादौ, संसारेऽनन्तशोऽमुना भुक्तम् / न च हुकृतं कदापि, क्षुत्क्षामेणेक्षितं शून्यम् // 37 // लौल्येन भुक्तमेतत्, कुरुते कर्माणुसञ्चयाजीर्णम् / तदुदयजीर्णं तस्य च, नरकादिविसूचिका दत्ते // 38 // तच्चारु मन्यतेऽसौ, तथापि खलु भोजनं विपर्यासात् / स्वादं न तु वेत्ति महाकल्याणचारित्रभोज्यस्य . // 39 // : 26