________________ उन्मादो मिथ्यात्वं, सकलाकार्यप्रवर्तकश्चास्य / भवति महातापकरो, ज्वर इव रागोऽतिदुःखाय // 16 // शमघर्षणकृतहर्षः; क्रोधः कण्डूविवेकदृग्घाती / अज्ञाननेत्ररोगो, हृद्ग्राहि द्वेषशूलं च // 17 // भयशोकारतिजन्यं, दैन्यं चोद्वेजकं गलत्कुष्टम् / सत्कार्योत्साहहरो, जलोदराभः प्रमादभरः // 18 // भक्ताश्रद्धाऽविरतिव्रतपथ्यरुचिप्रमाथिनी गहना / मूर्छ विभवाहंकृतिरुपहतहृवृत्तिसर्वस्वा // 19 // निर्दलयन्निव हृदयं, संकल्पो वर्धते महाश्वासः / अर्शोङ् कुराश्च कामा, अवाच्यगूढातिपरिणामाः // 20 // इत्यादिभावरोगैरार्तोऽसौ शमवतां कृपापात्रम् / . हास्यः सरागदमिनामन्येषां क्रीडनस्थानम् // 21 // प्रतिभवनमटन् भिक्षां, तल्लिप्साविह्वलः स तुच्छमतिः / / खिद्यति कूटविकल्पैर्ध्यायन्नार्तं च रौद्रं च // 22 // यदि तां भिक्षा लप्स्ये, यास्यामि तदा तथाऽहमेकान्ते / न यथा द्रक्ष्यन्त्यन्ये, भोक्ष्ये च निराकुलस्तत्र // 23 // अवशिष्टं तु निधास्ये, दास्ये म्रियमाणकोऽपि नार्थिभ्यः / ये लास्यन्ति, बलात्तैः, संह बाढं योद्धमारप्स्ये // 24 // एवमलीकं ध्यायति, न पुनरवाप्नोति किमपि निष्पुण्यः / कथमपि कदनलेशप्राप्तौ तु जगत्तॄणं वेत्ति // 25 // कर्माजीर्णकरत्वात्, कदन्नतुल्यं धनादिकं लब्ध्वा / तुच्छविभवोऽपि मूढो, जन्तुः स्वं मन्यते शकम् // 26 // रम्भीयति निजललनां, मानी निजमन्दिरं विमानीयन् / स्वर्गीयति स्वनगरं, त्रिदशीयति परिजनं च स्वम् // 27 // ' 5