________________ // 7 // // 8 // इत्यादौ धर्मगुरोभविनो धर्मप्रदानविधिवार्ताम् / पाषाणपल्लवोद्गमचमक्रियाकारिणीं वक्ष्ये // 4 // अस्तीह भवाह्वान, -पुरमतुलमदृष्टमूलपर्यन्तम् / अन्यान्यजन्महट्टप्र-विततबहुदुःखसुखपण्यम् चित्राकुलसुगतादिकमतदेवकुलं कषायसकलकलम् / दृढमोहप्राकारं, तृष्णापरिखावृतमलच्यम् . इष्टवियोगाप्रियसंप्रयोगगम्भीरकूपबहुरूपम् / विस्तीर्णभोगसरसीतनुकाननजाड्यगृहरम्यम् अविवेकद्विपशालाविकल्पनवतुरगमन्दुरोद्दिप्तम् / निरवधिकाममनोरथरथप्रचारोन्मथितमार्गम् आसीत् तत्र द्रमको, भवजन्तुस्तत्त्वतो विगतबन्धुः / शब्दादिविषयकदशनदुष्पूरमहोदरः पापः // 9 // विपरीतमतिस्तत्त्वातत्त्वग्रहणाद्धनादिलोभाच्च / दुःस्थश्चानुपलम्भात् सद्धर्मकपर्दकस्यापि // 10 // कर्मारिध्वंसिबलाभावाद् गतपौरुषः क्षुधाक्रान्तः / विषयबुभुक्षानुगमात्, सर्वज्ञाऽभजनतोऽनाथः दुष्कृतभूमीलुठनाद्, दलिताङ्गो बन्धधूलिदुर्ललितः / मोहाकुलाशुचिचीरश्चरणभृतां निन्द्यतां प्राप्तः // 12 // विषयकदन्नाशार्तेरुच्चावचजन्मनामगेहेषु / भ्रान्त्वाऽऽदत्ते तुच्छां, स निजायुर्भाजने भिक्षाम् // 13 // कुविकल्पास्तद्धेतुग्रन्थाश्च कुतीथिकाश्च तस्य तनुम् / . तत्त्वाभिमुख्यरूपां जर्जरयन्तीह डिम्भगणाः // 14 // तद्वेदनाविधुरितो, नानागतिदुःखशोकनिर्मग्नः / उच्चैः पूत्कुरुतेऽसौ, न तु शरणं कोऽपि तस्य स्यात् // 15 //