________________ धृत्वा तृणं याति सिता स्ववक्त्रे, द्राक्षाऽपि सा संकुचति हियेव। विधोः सुधा च क्षयमेति भीता, मन्ये जिता यस्य कथारसेन // 264 // निजां कथां यः कथयन् सभायां, निनाय सभ्यान् मणिदर्पणत्वम् / तेषु प्रपन्नाः प्रतिबिम्बभावं, भावाः समग्रा इति यत्कथोक्ताः // 265 / / कथा यथार्थेव मता मुनीन्द्र-वैराग्यहेतुः किल कल्पिताऽपि। यत्पुण्डरीकाध्ययनं द्वितीये, प्रसिद्धमङ्गे परिकल्पितार्थम् // 266 // नेयं कथा गुणरथाध्वनि मत्कृताऽपि, स्थूलाऽपि यास्यति सतां किमनुग्रहेण कर्पासजातिमपि किं न नृपोपभोग्यां, कुर्यात् सुशिल्पिघटना पटनामदात्री चरितमिह निजैर्गुणैश्च दोषैनिखिलजनैरनुभूयते यदन्तः / श्रवणपुटसुधायतां बुधानां, बहिरुपमानपदापितं तदेव // 268 // यो यो भावो जनयति मुदं वीक्ष्यमाणोऽतिरम्यो, . बाह्यस्तं तं घटयति सुधीरन्तरङ्गोपमानैः। मग्नस्येत्थं परमसमताक्षीरसिन्धौ यतीन्दोः, . कण्ठाश्लेषं प्रणयति घनोत्कण्ठया द्राग् यशःश्री: // 269 // // द्वितीयः स्तबकः // अयमनुसुन्दरनृपतिः, कृपयैव समन्तभद्रसूरीणाम् / कृतनरकयोग्यकर्माऽप्यवाप सर्वार्थसिद्धिसुखम् पूर्वभवेऽस्य च गुरुभिर्विहिता परिकर्मणा बहूपायैः / तत एव चित्तरत्नं कान्तिं स्वाभाविकी लेभे अन्येऽपि ये भवाम्बुधिमुत्तीर्णा विविधदुःखकल्लोलम् / . गुरुचरणकृपैव तरी, तेषामपि सर्वशर्मकरी // 2 // // 3 // .23