________________ संसारिणो नैव निजं स्वरूपं, पश्यन्ति मोहावृतबोधनेत्राः। समाधिसिद्धा समतैव तेषां, दिव्यौषधं दोषहरं प्रसिद्धम् // 252 // बबन्ध पापं नरकैकवेद्यं, प्रसन्नचन्द्रो मनसाऽप्रशान्तः।। तत्कालमेव प्रशमे तु लब्धे, समाधिभृत् केवलमाससाद // 253 // षट्खण्डसाम्राज्यभुजोऽपि वश्या, यत्केवलश्रीर्भरतस्य जज्ञे। न याति पारं वचसोऽनुपाधि-समाधिसाम्यस्य विजृम्भितं तत् // 254 // अप्राप्तधर्माऽपि पुरादिमाई-न्माता शिवं यद्भगवत्यवाप। समाधिसिद्धा समतैव हेतु-स्तत्रापि बाह्यस्तु न कोऽपि योगः // 255 / / समाधिसाम्यास्तवपुर्ममत्वा, मत्वा स्वभावं धृतशुद्धसत्त्वाः / न सेहिरेऽति किमु तीव्रयन्त्र-निष्पीडिताः स्कन्दकसूरिशिष्याः॥ 256 // लोकोत्तरं चारुचरित्रमेतद्, मेतार्यसाधोः समतासमाधेः / हृदाऽप्यकुप्यन्न यदाचर्म-बद्धेऽपि मूर्धन्ययमाप तापम् // 257 // स्त्रीभ्रूणगोब्राह्मणघातजात-पापादधःपातकृताभिमुख्याः / दृढप्रहारिप्रमुखाः समाधि-साम्यावलम्बात् पदमुच्चमापुः // 258 // कर्मक्षये हेतुरितीष्टमेक-मैकान्तिकं साधुसमाधिसाम्यम्। उदाहृतास्तीर्थकरैर्विचित्रा, दिग्दर्शनायास्य परे तु योगाः // 259 // रक्षन् शशं मेघकुमारजीव-द्विपो भवं यत् प्रतनूचकार। निर्दिष्टमव्यक्तसमाधिसाम्यं, तत्रापि मार्गाभिमुखत्वबीजम् // 260 // समाधिसाम्यक्रमतो हि योग-क्रियाफलावञ्चकलाभभाजः। आसादितात्यद्भुतयोगदृष्टि-स्फुरच्चिदानन्दसमृद्धयः स्युः // 261 // समाधिमाहात्म्यमिदं जनानां, पुरःस्फुरद्रूपमतो विधित्सुः। . वक्ष्ये विचित्रां रुचिरोपमानैः, कथां पवित्रामनुसुन्दरस्य // 262 // कथा यदीया निजवाक्यभङ्गी-पुण्ड्रेक्षुयन्त्रोपमिता मितार्था / रसं यदुत्थं भविकाः पिबन्ति, विनाऽप्यपेक्षां खलु चर्वणायाः // 263 //