________________ रैणे तृणे ग्राणि च काञ्चने न, शत्रौ च च मित्रे भवने वने च। भवे च मोक्षे समतां श्रयन्तः, समाधिभाजः सुखिता भवन्ति // 240 // निरञ्जनाः शङ्खवदाश्रयन्तो-ऽस्खलद्गतित्वं भुवि जीववच्च। वियद्वदालम्बनविप्रमुक्ताः, समीरवच्च प्रतिबन्धशून्याः // 241 / / शरत्सरोंनीरविशुद्धचित्ता, लेपोज्झिताः, पुष्करपत्रवच्च / गुप्तेन्द्रियाः कूर्मवदेकभाव-मुपागताः खङ्गिविषाणवच्च // 242 // सदा विहङ्गा इव विप्रमुक्ता, भारुण्डपक्षीन्द्रवदप्रमत्ताः / शौण्डिर्यभाजो गजवच्च जात-स्थामप्रकर्षा वृषभा इवोच्चैः // 243 // दुर्धर्षतां सिंहवदब्धिवच्च, गम्भीरतां मन्दरवत् स्थिरत्वम् / प्राप्ताः सितांशूज्ज्वलसौम्यलेश्याः, सूर्या इवात्यद्भुतदीप्तिमन्तः।। 244 // सुजातरूपास्तपनीयवच्च, भारक्षमा एव वसुन्धरावत्। ज्वलत्त्विषो वह्निवदुल्लसन्ति, समाधिसाम्योपगता मुनीन्द्राः // 245 // गजाश्च सिंहा गरुडाश्च नागा, व्याघ्राश्च गावश्च सुरासुराश्च / तिष्ठन्ति पार्श्वे मिलिताः समाधि-साम्यस्पृशामुज्झितनित्यैवराः॥ 246 // चरीकरीति प्रशमं समाधि-साम्यस्पृशां दृग्लहरी जनानाम्। पान्थस्य किं पद्मसर:समीर-स्तापं न निर्वापयितुं क्षमः स्यात् // 247 / / जना मुदं यान्ति समाधिसाम्य-जुषां मुनीनां मुखमेव दृष्ट्वा / चन्द्रेक्षणादेव चकोरबालाः, पीतामृतोद्गारपरा भवन्ति // 248 // समाधिसाम्यादुदितान्मुनीनां, हर्षप्रकर्षो वचनाद् भवेद् यः। गुरुत्वमत्येति महानिधान-लाभेन सार्धं तुलितोऽपि नायम् // 249 // स्थिरासनाऽशेषविकारशून्या, समाधिसाम्याद्भुतरङ्गभाजाम्। मुद्राऽपि मुद्राज्यसुधासमुद्रा-मुद्रामृतांशुधुतिरङ्गभाजाम् // 250 // अपेक्षितान्तःप्रतिपक्षपक्षैः, कर्माणि बद्धान्यपि जन्मलक्षैः। प्रभा तमांसीव रवेः क्षणेन, समाधिसिद्धा समता क्षिणोति // 251 //